________________
• ऋषिभाषितानि
-
दन्तधावने व्यापारयति, धान्यनिष्पन्नमेवापूपाद्यभ्यवहरति न तु सौवर्णमिति व्यर्थ एवोच्चादिविकल्प इति भावः । आह च सहस्रिणोऽपि जीवन्ति, जीवन्ति शतिनस्तथा । धृतराष्ट्र ! विमुञ्चेच्छां, न कथञ्चिन्न जीव्यते इति (महाभारते उद्योगपर्वणि ३९-८३) । न च जीवनसाम्येऽपि धनिनां विशिष्टतरभोग्यभोगात्सुखम्, दुःखं चेतरेषामिति वैषम्यमिति वाच्यम्, विपर्यासस्याप्युपलम्भात्, यथोक्तम् सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा इति (महाभारते ५३४-५०) । तथा - प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । जीर्यन्त्यपि हि काष्ठानि दरिद्राणां च सर्वशः- इति (महाभारते १२-१८-२९) ।
-
वस्तुतस्तु दुःखावहं सुखमपि दुःखमेवेति हेयैव वध्यमण्ड - नकल्पस्य सुखसाधनस्याशंसा, तस्मादलं धनादिना, संयमोद्यमेनैव क्षणादि सार्थकीक्रियतामित्युपदिशति
-
खणथोवमुहुत्तमंतरं सुविहित ! पाउणमप्पकालियं । तस्स वि विपुले फलागमे किं पुण जे सिद्धिं परक्कमे ?
क्षणः -
।।२८-२४।। लोचननिमेषमात्रः कालः (आवश्यके ।। अ. ३11), स्तोकः सप्तप्राणात्मकः कालविशेषः, मुहूर्त्तः - अहोरात्रस्य त्रिंशत्तमो भागो द्विघटिकारूपः, एतावन्मात्रमप्यन्तरम् - यथेष्टाचरणायावकाशम् कीदृशमित्याह - अल्पकालीनम् उक्तान्तरस्यात्यल्पाध्वरूपत्वात् प्राप्य - कथञ्चिदुपलभ्य, हे सुविहित !
आर्षोपनिषद्
- हे शोभनाचरणशाली ! यस्तावन्तमपि कालं ज्ञानाद्याराधनया साधिकद्विनवतिकोटिपल्योपमनयति, तस्यापि विपुलः देवायुष्यादिलक्षणोऽनल्पः, फलागमः - अवन्ध्यशुभकर्माश्रवोशुभनिर्जरा च । उक्तं च यस्य क्षणोऽपि सुरधामसुखानि पल्यकोटिर्नृणां द्विनवतिं ह्यधिकां ददाति । किं हारयस्यधम ! संयमजीवितं तद् हा हा प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ? - इति ( अध्यात्मकल्पद्रुमे १३-५६ ) ।
किं पुनर्यः सिद्धिम्- कृत्स्नकर्मक्षयलक्षणां मुक्तिं प्राप्तुं तदभीप्सया सर्वात्मना तपःसंयमयोः पराक्रमेत् - अपूर्ववीर्योल्लासेनोद्यमातिशयं कुर्यात् ? तस्य तु तर्कातीतनिरूपमफलागम इ भावः । ननु यद्यपि तर्कातीत उपमारहतिश्चासौ, तथापि पराक्रमितुर्यत्सम्पद्यते, तल्लेशेनाप्युच्यताम्, पराक्रमप्रायोग्यवीर्योउल्लासस्य तच्छ्रवणनान्तरीयकत्वादित्यत्राह
८४
-
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि ।।
एवम् - तपः संयमपराक्रमेण स इत्यादि प्राग्वत् । इत्यष्टाविंशतितम आर्द्रकीयाध्ययन आर्षोपनिषद् ।
।। अथैकोनत्रिंशत्तमोऽध्यायः ।।
अनन्तराध्ययने कामभोगत्यागोऽभिहितः, तत्र यतमानस्याप्यनादिकुवासनावशात् कस्यचित्पूर्ववदेव विषयप्रवृत्तिर्भवतीति तन्मुखेनैव प्रश्नयति -