________________
ऋषिभाषितानि
सवंति सव्वतो सोता किं ण सोतोणिवारणं ? | पुट्ठे मुणी आइक्खे कहं सोते पिहिज्जति ? |
-
इन्द्रियाणि, हृषीकमक्षं करणं स्रोतः खं
वद्धमाणेण अरहता इसिणा बुझतं । स्रोतांसि विषयीन्द्रियम् - इत्युक्तेः ( अभिधानचिन्तामणी १३८३) ।, सर्वतः समन्तात्, स्रवन्ति स्यन्दन्ति । यत्र यत्राभीष्टविषयोपलब्धिस्तत्र तत्र धावन्तीत्याशयः । किं न स्रोतसाम् इन्द्रियाणाम्, विषयप्रवृत्तानामिति गम्यते, निवारणम् प्रत्याहारलक्षणा विषयेभ्यः समाहृतिः ? इति पृष्टे सति कथम् - केनोपायेन, स्रोतः पिधीयते विषयावगमद्वारावच्छेदेन संवृतीक्रियते, तन्मुनिः वक्ष्यमाणोपायादृत्यवाप्तोपेयो यतिः, आख्यात् प्रतिपादितमर्यादयाऽवोचत् ।
प्रवचन
-
-
८५
-
।।२९-१।।
-
-
इदमपि केनोदितमित्याह- वद्धमाणेण अरहता इसिणा बुइतं वर्द्धमानेनार्हतर्षिणोदितमिति । स्रोतोनिवारणोपायमभिधातुकाम एवोपक्रमते -
पंच जागरओ सुत्ता, पंच सुत्तस्स जागरा । पंचहिं रयमादियति, पंचहिं च रयं ठए । । २९-२।। पञ्च पञ्चसङ्ख्या शब्दादिविषयाः, जाग्रतः - निद्रादिप्रमादरहितस्य सुप्ता इव सुप्ताः, भस्मच्छन्नवह्निवत्प्रतिहतशक्तयो भवन्ति । कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात् कर्मबन्धकारणानि न भवन्तीत्यर्थः ।
आर्षोपनिषद्
तथा त एव पञ्च शब्दादयः सुप्तस्य
निद्रादिप्रमादवतो जागरा इव जागराः, शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणानि भवन्तीत्यर्थः । तथा च पारमर्षम्- संजतमणुस्साणं सुत्ताणं पंच जागरा पण्णत्ता, तं जहा सद्दा जाव फासा। संजतमणुस्साणं जागराणं पंच सुत्ता पण्णत्ता, तं जहा सद्दा जाव फासा इति (स्थानाङ्गे ५-२-४६०) तथा पञ्चभिरगुप्तैरिन्द्रियै रजः कर्मलक्षणम्, जीवस्वरूपोपरञ्जनात्, आदत्ते नातीत्यर्थः । पञ्चभिश्च गुप्तैरिन्द्रियैः, रजः स्थगयेत् संवरानुभावेन स्वस्मिन्नाश्रवन्निवारयेत् ।
गृह्णाति
८६
1
-
यद्वा पञ्चभिराश्रवैः प्राणातिपातादिभी रज आदत्ते, संवरैश्च पञ्चभिस्तत् स्थगयेदित्यर्थः । यदार्षम् - पंचहिं ठाणेहिं जीवा रतं आइयंति, तं जहा पाणातिवातेणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा रतं वमंति, तं जहा पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं इति (स्थानाङ्गे ५-२- ४६१) ।
यद्येवं तर्हि संवरोपाय एव तावदुच्यतामित्यत्राहसद्दं सोतमुवादाय मणुण्णं वा वि पावगं । मम्मि ण रज्जेज्जा, ण पदुस्सेज्जा हि पावए । । ।।२९-३।।
श्रोत्रम् - कर्णः, मनोज्ञम् - प्रियम्, वा, पापकम् - अप्रियमपि वा शब्दम् ध्वनिम्, उपादाय योग्य
-