________________
ऋषिभाषितानि
बहवः - प्रभूताः, जीवाः क्लिश्यन्ति - शारीरमानसानन्तकष्टसन्दोहं विषहन्ते । तदाह - कामसंपाडणनिमित्तं० किलिस्सन्ति अकिलिस्सियव्वं इति (समरादित्यकथायां नवमे भवे ) । तस्मात् - सल्लं कामा विसं कामा कामा आसीविसोवमा । बहुसाधारणा कामा कामा संसारवड्ढणा ।। २८-४।। शलति - देहान्तश्चलतीति शल्यम्- शरीरान्तः प्रविष्टं तोमरादि । शल्यमिव शल्यम्, के ते ? काम्यमानत्वात्कामाः - मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविधबाधाविधायि तथैतेऽपि तत्त्वत एषामपि सदा बाधाविधायित्वात्, तथा वेवेष्टिव्याप्नोतीति विषम्- तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः । तदाह- विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् - इति (भगवद्गीतायाम् ।।१८-३८ । । ) । तथा कामाः, आस्य:- दंष्ट्रास्तासु विषमस्येत्याशीविष- स्तदुपमाः, यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः ।
किञ्च कामा बहुसाधारणाः, कुक्कुरशूकराद्यधमजीवेष्वपि समानतयोपभुज्यमानाः, अतस्तदादृतौ शूकरादेरात्मनो निर्विशेषतैव स्यात् । तथा कामाः संसारं वर्धयन्तीति संसारवर्धनाः, यतः
पत्यंति भावओ कामे जे जीवा मोहमोहिया । दुग्गमे भयसंसारे ते धुवं दुक्खभागिणो ।। २८-५ ॥
६९.
आर्षोपनिषद् ये मोहः - अतत्त्वदर्शनम्, तेन मोहिताः विनष्टविवेकप्रज्ञा:- मोहमोहिता जीवा भावतः - स्वरसतः, कामान् प्रार्थयन्ति अभिलषन्ति, ते - जीवा अनेकाधिव्याधिशोकजन्मजरामरणादिजटिलत्वेन दुःखेन गम्यते यत्र स दुर्गमः, तस्मिन्, अत एव भयनिचिते संसारे भयसंसारे ध्रुवम् - सुनिश्चितम् दुःखभागिनः कष्टलब्धारः । यदुक्तम् विसए अवइक्खता, पडति संसारसायरे घोरे
इति (इन्द्रियपराजयशतके
।।२८।। ) । एतदेवाह -
कामसल्लमणुद्धित्ता जंतवो काममुच्छिया । जरा-मरणकंतारे परियंत्तंति वक्कमं ।। २८-६ ।। कामेन कामेषु वा मूर्च्छिता जन्तवः कामशल्यमनुद्धृत्य जिनप्रवचनशलाकया तदुद्धारमकृत्वा, जरामरणान्येव गुपिलतया कान्तारः - जरामरणकान्तारः, तस्मिन्, अपगतः क्रमो यथा स्यात्तथाऽपक्रमम्, पृथिव्यादिष्वनियतमिति भावः, परिवर्तन्ते पुनः पुनरुद्भवमाप्नुवन्ति । अतोऽवश्यं कामशल्यमुद्धरितव्यम्, प्राप्तेष्वपि कामेषु तृप्त्यसम्भवाच्चेत्यात्मव्यपदेशेनैवाह
७०
-
-
-
-
-
-
-
सदेवमाणुसा कामा मए पत्ता सहस्ससो । न याहं कामभोगेसु तित्तपुव्वो कयाइ वि ।। २८- ७ ॥ १. क.ण परिव्ययंतिवक्कमं । ख परियत्तंतिवक्कवं । ग.द. ढ. ध.न.प.परियत्तंति वक्कमं । घत परियत्तन्तवुक्कमं । च परियत्तंत्यवक्कमं । ज परियत्तंति पक्कव्वं । टपरियन्त्तति पक्कवं । ठ परियत्तंति पक्कवं । झ परियत्तंतवुक्कमं थ परियत्तंति वक्कवं ।