________________
ऋषिभाषितानि
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।।
एवमित्यादि प्राग्वत् । इति सप्तविंशतितमे वारत्तकनामाध्ययन आर्षोपनिषद् |
६७
श्रमणविडम्बनोदिता,
।। अथाष्टाविंशतितमोऽध्यायः ।। अनन्तराध्ययने पूजनाद्याशंसाभिः अत्राप्याशंसाव्युच्छेदमेव कर्तव्यतयोपदेष्टिछिण्णसोते भिसं सव्वे कामे कुणह सव्वसो । कामा रोगा मणुस्साणं कामा दुग्गतिवड्ढणा ।। २८-१ ।। सर्वशः - सर्वप्रयत्नेन सर्वान् कामान् लोकसत्काराद्याशंसारूपान्, शब्दाद्युपभोगतृष्णारूपान् वा, भृशम् - बाढम्, छिन्नानि स्रोतांसि - पूरणमार्गा येषां ते छिन्नस्रोतसः, तद्रूपान् कुरुत, कामपूरणेन तदभिवृद्धिभावात्, यदाह - न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते - इति ( विष्णुपुराणे । । ४ -१०-२३ ।। ) ।
यतो मनुष्याणाम् - मानवानाम्, उपलक्षणाच्चतुर्गतिकजीवानाम्, कामा एव रोगाः, दुःखरूपत्वात्, तदाह- कामरागसमं दुःखं नैव भूतं भविष्यति - इति (प्रेमगीतायाम् । । २४७।। ) । एतेनैहिकदुःखतोक्ता, साम्प्रतमामुष्मिकेऽपि दुःखावहतामाचष्टे - कामा दुर्गतिः - नरकादिः, ता वर्धन्त इति दुर्गतिवर्धनाः, अतः - णासेवेज्ज मुणी गेही एकंतमणुपस्सतो।
कामे कामेमाणा अकामा जंति दोग्गतिं । । २८-२ ।।
आर्षोपनिषद्
मुनिः - कामैर्दुर्गतय इतिज्ञानसम्पन्नः, मोनं वुच्चति जाणं इति निरुक्तेः (महानिद्देसपालिसूत्रे।।१-२-१४ । । ) । गृद्धिम् - विषयासक्तिम्, नासेवेत - नैव कुर्यात् कीदृशो मुनिरित्याह- एक एवाहमित्यन्तो निश्चयः एकान्तस्तं निश्चयमनुपश्यन्विचारयन्, तदुपयुक्त इति यावत्, एकत्वभावनां भावयन्निति भावः प्रथमार्थे षष्ठी। तद्भावनाभावनेन न मेऽतिप्रिया अपि विषया सहायाः स्युरित्यादिसंवित्तेः स्यादेव गृद्ध्यपगम इति ।
इतश्च गृद्ध्यपगमः, वक्ष्यमाणतत्त्वपरिभावनादित्याहकामान् कामयमानाः - अभिलषन्तः, अपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि, आसतां सम्प्राप्तकामाः, अकामाः इष्यमाणकामवर्जिताः, यान्ति गच्छन्ति, दुर्गतिम् दुष्टां नरकादिगतिम्, न चोपभुज्यमाना एव, अपि तु प्रार्थ्यमाना अपि कामा दुर्गतिवर्धना इति हृदयम् । किञ्च -
जे लुब्धंति कामेसु तिविहं हवति तुच्छ से । अज्झोववण्णा कामेसु बहवे जीवा किलिस्संति
६८
-
।।२८-३।।
ये - जीवाः, कामेषु लुभ्यन्ति - सतृष्णा भवन्ति तेषाम्, तिस्रो विधा यस्य तत् त्रिविधम् मनोवाक्कायकदम्बकम्, तुच्छम् क्षुद्रं भवति, निर्वीर्यतायोगात् कामत्यागेनैव वीर्ययोगसम्भवात्, यदाह ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः - इति
( योगसूत्रे ।। २ - ३८ ।। ) । तथा कामेष्वध्युपपन्नाः - तल्लीनचित्ताः,
१. ख तुच्छे से च.ग.घ.झ.त.ज.ट. ठ.ढ.. ध.न.प. तुच्छ से ।
-
-
-