________________
६६
Re-ऋषिभाषितानि सुखम् - सुखहेतुकृत्यम्, प्रयोजयेत् - सङ्क्लिष्टाध्यवसायप्रकर्षेण कुर्यात्, स वेशविडम्बकः, अर्थी - मत्प्रयोजनसाधकोऽयं भविष्यतीति मत्वा नमस्यमानो भक्तजनः, तस्य विषयाः - गृहव्यवहाराद्याः , तेषु, दक्षते परकार्य शीघ्रं करोतिदक्षिणः, स्वरससमावेशात् प्रकर्षेण दक्षिणः - प्रदक्षिणः। तस्येत्यादिप्राग्वत्। अत्र हेतुः प्रवचनप्रतिक्रुष्टस्य प्रतिपत्तिरेव, तदार्षम् - जीवियं नाभिकंखे (दशवैकालिके।।१०-१७।।) नोऽविय पूयणपत्थए सिया (सूत्रकृताङ्गे।। १-३-१६।।), चइज्ज पूयणं (आचाराङ्गे।।२-४५-७।।), ण य पूयणट्ठी न सिलोयकामी य परिवएज्जा (सूत्रकृताङ्गे।। १-१०-२३।।), गिहिणो वेयावडियं न कुज्जा (दशवैकालिके।।चू.२-९।।) - इत्यादि। सर्वमिदं पूजनादि प्रतिष्ठायै काझ्यते, सैव योगिभिर्निन्दिता, तदाहुः परेऽपि - प्रतिष्ठा सूकरीविष्ठा समा गीता महर्षिभिः। तस्मादेनां परित्यज्य कीटवत् पर्यटेद्यतिः - इति (नारदपरिव्राजकोपनिषदि।।५-१५।।)। विषस्येवोद्विजेतैव सन्मानात् सर्वदा यतिः। अमृतस्येवातृप्येत चापमानस्य सर्वदा - इति। तदेवं स्थिते यत्कर्तव्यं तदुपदिशतिववगयकुरुजे संछिण्णसोते
पेज्जेण दोसेण य विष्पमुक्के। पियमप्पियसहे अकिंचणे य
आतटुं ण जहेज्ज धम्मजीवी।।२७-८॥ विशेषेणापगताः कुत्सिता रुजाः - भावरोगाः यस्य सः - १. रोगो रुजा रुगातङ्कः - हैम ।
- आर्षोपनिषद् - व्यपगतकुरुजः - विलीनपूजादिगृद्धिरित्याशयः। सम्यक् - रागाद्यपासनेन, छिन्नः-निकृत्तो विषयप्रचारो येषां तानि सञ्छिन्नानि, सच्छिन्नानि स्रोतांसि - इन्द्रियाणि यस्य स सच्छिन्नस्रोता:, सम्भिन्नस्रोतोलब्धिसम्पन्नो वा, विशुद्धचारित्रानुभावेनैकेन्द्रियेणापि पञ्चेन्द्रियविषयसंवेत्तेत्यर्थः। छिन्नानि वा श्रोतांसीव श्रोतांसिमिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः। प्रेम्णा द्वेषेण च विप्रमुक्तः, साम्यसामर्थेनेति गम्यते, यदाह- को मोहः ? कः शोकः ? एकत्वमनुपश्यतः-इति (ईशावास्योपनिषदि।।७।।)। अत एव प्रियाप्रियसहः, इष्टानिष्टेषु विषयेषु रागद्वेषनिग्रहकरणे समर्थः, तदाह- प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न। ब्रह्माश्रिता असम्मूढा ब्रह्मज्ञाः समबुद्धयः - इति (गणेशगीतायाम्।।४-१०॥)। पियमप्पियं सव्वं तितिक्खएज्जा - (उत्तराध्ययने।।२१-१५।।) इति पारमर्षपरिणतिसम्पन्न इति तात्पर्यम्।
न विद्यते किञ्चनम् - द्रव्यभावग्रन्थिलक्षणम्, यस्य सोऽकिञ्चनः, सर्वत्र प्रतिबन्धविनिर्मुक्तत्वात्, धर्मेणैव जीवितुं शीलमस्य- धर्मजीवी, इतरथा प्राणविस्रष्टा, धर्मरुचिप्रभृतिवदिति हृदयम्।
स एवंविधो भूत्वा कदापि आत्मनोऽर्थः - मोक्षलक्षणं प्रयोजनम्-आत्मार्थः, तं न जह्यात्- नैव त्यजेत्। प्रव्रज्यादिसर्वाभियोगो मम मोक्षायैवेति कदापि न विस्मरेत्, तद्विस्मरण एव पूजनाद्यैहिकप्रयोजनोद्भवात्। यावन्मुमुक्षुतामेव मुमुक्षुजीवनमिति। एवमात्मार्थात्यागेन यत्पर्यवसति तदाह