________________
Re-ऋषिभाषितानि सरस्स विजयं जो विज्जाहिं न जीवई स भिक्खू - इति (उत्तराध्ययने।।१५-७॥)। ___ एवं चास्य जनसत्कारादिलोभेन संयमसाम्राज्यभ्रंशः, सोऽयं काकिणीहेतोः कोटिहानन्यायापातः, उक्तं च - किन्तु सातैकलिप्सुः स, वस्वाहारादिमूर्च्छया। कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम्।। कथयंश्च निमित्ताद्यं, लाभालाभं शुभाशुभम्। कोटिं काकिणीमात्रेण, हारयेत् स्वं व्रतं त्यजन् - इति (योगसारे।।४/२२-२३॥)।
नन्वस्तु श्रामण्यादन्तरम्, सत्कारादिसुख एव परितोषयोगान्न नः किञ्चिच्छिन्नमिति चेत् ? न, वध्यमण्डनकल्पत्वात्तादृशसत्कारादेः, यदाह- जे लक्खणं सुविण पउंजमाणो निमित्तकोहलसंपगाढे। कुहेडविज्जासवदारजीवी, न गच्छई सरणं तंमि काले।। तमंतमेणेव उ से असीले, सया दुही विपरियासुवेइ। संधावई नरगतिरिक्खजोणी मोणं विराहित्तु असाहुरूवे - इति (उत्तराध्ययने।। २०/४५-४६।।) ।
अथ कश्चिन्न लक्षणाद्याख्याति, अनवगमात्, किन्तु गृहिगेहतप्तिं विधत्ते, तमधिकृत्याप्याहजे चोलक-उवणयणेसु वा वि
आवाह-विवाह-वधूवरेसु य। जुंजेइ जुज्झेसु य पत्थिवाणं,
सामण्णभावस्स महंतरं खु से।।२७-६।। यः - नामश्रमणः चौलकानि - विधिना बालकानां चूला
- आर्षोपनिषद् - कर्माणि-मुण्डनानि, उपनयनानि - यज्ञसूत्रपरिधापनरूपा उपवीतसंस्काराः, तेषु वाऽपि, आवाहः - विवाहात् प्राक्तनकालीन उत्सवविशेषः, नववध्वा वरगृह आनयनं वा, विवाहः - पाणिग्रहणम्, वधूवरौ - दयितादयितौ, तयोरन्यदपि यत्किञ्चित् कर्मेति भावः, तेषु च, पार्थिवानाम् - राज्ञाम्, युद्धेषु - सङ्ग्रामेषु, उपलक्षणादीश्वरादीनां कलहेषु च, आत्मानं मुक्तमर्यादतया योजयति - स्वयं तत्र व्यापारयति, सहायादिभावं भजते वा, तस्येत्यादि प्राग्वत्। श्रामण्यभावादस्यान्तरं मुधाजीवित्वक्षतेः। अत एव गिहिकज्जचिंतगो- इति ( उपदेशमालायाम्।।३७३।।)। पारमर्षे साध्वाभासलक्षणम्। एवञ्च हिंसाद्यनुमत्यादिः, ततो वज्रलेपायमाना दारुणदुर्गतिसन्ततिः, तथोक्तम्- त्यक्त्वा गृहं स्वं परगेहचिन्ता - तप्तस्य को नाम गुणस्तवर्षे !। आजीविका ते यतिवेशतोऽत्र सुदुर्गतिः प्रेत्य तु दुर्निवारा - इति (अध्यात्मकल्पद्रुमे।।१३-४७।।)। शेषस्यापीदृशकृत्यस्य सङ्ग्रहार्थमाहजे जीवणहेतुं पूयणट्ठा
किंची इहलोकसुहं पउंजे। अट्ठिविसएसु पयाहिणे से,
सामण्णभावस्स महंतरं खु से।।२७-७।। यः - नामश्रमणः, जीवनहेतो:- आजीविकार्थम्, पूजनार्थम् - लोकसत्कारश्लाघाद्यवाप्त्यर्थं वा, किञ्चिदिहलोके १. मुधाजीवित्वस्वरूपावगमाय दृश्यतां दशवकालिके ।।५-१/९९-१००।। वृत्तिः । २. षष्ठ्यर्थे द्वितीया।