________________
- ऋषिभाषितानि
६१
कथञ्चिदाज्ञायोगं एव रत्नत्रयीसामग्र्यात्, तस्य च तेन विराधनादिति । प्रकृते जिनाज्ञा-गिहिसंथवं न
जा
(दशवैकालिके ।।८-५२।। ), तेसिं इहलोगफलट्टयाए जो संथवं न करेइ स भिक्खू (उत्तराध्ययने । । १५ - १० । । ) । अत एवागमः - पहीणसंथवे - प्रक्षीणः पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा गृहिभिः सह संस्तवो यस्य स प्रक्षीणसंस्तवः ।
अत एव जनसम्पर्क एव परैः प्रतिक्रुष्टः, तदाह-जनेभ्यो वाक् ततः स्पन्दो मनसश्चित्रविभ्रमाः । भवन्ति येन सम्पर्क, जनैर्योगी ततस्त्यजेत् - इति (समाधितन्त्रे ७२ ) । तथा योगी चरेन्नित्यं सतां धर्ममदूषयन्। जना यथावमन्येरन्, गच्छेयुर्नैव सङ्गति - मिति (नारदपरिव्राजकोपनिषदि ) । न ह्यन्तरवारपार निमज्जनमन्तरेण ज्ञानानन्दादिरत्नप्राप्तिरिति । इदं त्वत्यसमञ्जसमित्याहजे लक्खण- सुमिण - पहेलियाओ अक्खाईयइ य कुतूहलाओ । भद्ददाणाई गरे पउंजए,
सामण्णभावस्स महंतरं खु से ।। २७-५ ।। यः - नामश्रमणः, लक्षणम्- स्त्रीपुरुषयोर्यथा चक्खुसिणेहे सुहितो दंतसिणेहे य भोयणं मिट्ठ तयणेहेण य सोक्ख णहणेहे होइ परमधणं- इत्यादि । गजादीनां च यथायथं वालुकाप्यादिविहितम् । स्वप्नम् - स्वप्नगतं शुभाशुभकथनम्, यथा-गायने रोदनं ब्रूयान्नर्तने १. प्रकृते जिनाज्ञा पियमप्पियं कस्सइ नो करेज्जा इति (सूत्रकृताङ्गे । 19११ । । ७ । । ) । २. उत्त० । ।२१-२१ ।।
आर्षोपनिषद्
वधबन्धनम्। हसने शोचनं ब्रूयात्पठने कलहं तथा - इत्यादि ।
तथा प्रहेलिका अभिप्रेतार्थसंवरणकारिवचनविन्यासो गूढाशयपद्यमिति यावत् । सा च च्युताक्षराद्यनेकप्रकारा, क्रियागुप्तिप्रमुखा च यथा - पाण्डवानां सभामध्ये दुर्योधन उपागतः । तस्मै गाञ्च हिरण्यञ्च सर्वाण्याभरणानि च - इति क्रियागुप्तिः । एवं लक्षणं च स्वप्नं च प्रहेलिकां च - लक्षण - स्वप्नप्रहेलिकाः। कुतुहलात् - लोकसत्काराद्यवाप्त्यौत्सु - क्यात्, आख्याति - पृष्टोऽपृष्टो वाऽपि कथयति, पृष्टेनाऽपि न जाने - इत्येव वक्तव्यमिति सिद्धान्तः ( ओघनिर्युक्तौ गाथा- ४२५ वृत्तौ ) । अयं तूपेत्य स्वरसेन वदतीति । तथा भद्रम् - विषयाशंसातृप्तिहेतुकसुखासिका, तदर्थं चूर्ण भस्म दवरकादीनां दानानि भद्रदानानि, नरे - लोके प्रयोजयेत् भद्रदानप्रयोगेण सत्कारादिप्राप्तौ यत्नं कुर्यादिति हृदयम्, तस्य - वेशविडम्बिनः, श्रामण्यम् - चारित्रम् (उत्तराध्ययनबृहद्वृत्तौ । । अ. १८ । । ), तस्य भावः - आत्मनि परिणतिः - श्रामण्यभावः, तस्य च खलु महदन्तरम्, अयं श्रामण्यभावस्य सुदूरे वर्तत इति भावः तन्मुद्रासमुल्लङ्घनात्।
६२
-
इतश्चास्य श्रामण्यविरहः, विलक्षणत्वात्, यदार्षम् - छिन्नं सरं भोमं अंतलिक्खं, सुविणं लक्खणं दंड वत्थुविज्जं । अंगविगारं १. पाण्डवानां सभाया मध्ये यः अधनो दरिद्र उपागत उपस्थित आसीत्, तस्मै गां हिरण्यं सुवर्णं च सर्वाणि आभरणानि च अदुर्दत्तवन्तः इत्यर्थः । साहित्यदर्पणे ।। दशमपरिच्छेदः ।। कुसुमप्रतिमायां वृत्तौ ।। पृ. ५९६ ।। २. उभयोः मध्ये बृहदन्तरालं विद्यते - इत्यर्थः । ३. विगतं वक्ष्यमाणं श्रमणलक्षणं यस्मात् स विलक्षणः ।