________________
Re-ऋषिभाषितानि - बहुकालम्, मासकल्पादिपूर्तावप्युर्ध्वकालमित्याशयः, न संवसेत्, पुष्टालम्बनमन्तरेण नैव निवासं कुर्यात्। यतः संवासेन - लोकेन सह वासकरणेन, अन्योन्यस्य स्नेहः-प्रेम, वर्धते संयमप्रतिबन्धकताप्रायोग्यां स्फातिं प्रतिपद्यते। यदुक्तम् - संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि। अन्योन्यस्य च विश्वासः, श्वपचेन शुनो यथा - इति (महाभारते १२-१३९-४०) ____ तस्मात्संवासं परिहाय सूत्रोक्तविहारे यतितव्यम्, यतः
अनित्यचारिणः - वसतिभिक्षाचार्यादौ सर्वत्र नित्यतापरिहारेण विहरतः, भिक्षोः - श्रमणस्य, आत्मनोऽर्थः - प्रयोजनम्आत्मार्थ:- मोक्षः, तस्मिन् - तत्साधनविधौ, कर्माणि - ज्ञानावरणादीनि, द्विधायन्ते-भेदमुपयान्ति, आज्ञायोगस्य कर्मवियोगावहत्वस्वाभाव्यात्। अतः -
पयहित्तु सिणेहबंधणं झाणज्झयणपरायणे मुणी। णिधुतेण सया वि चेतसा णिव्वाणाय मतिं तु संदधे
॥२७-३।। स्नेह एव बन्धनम् - स्नेहबन्धनम्, न पेमरागा सममत्थि बंधो-इत्युक्तेः, प्रजहाय - प्रकर्षण - तल्लेशस्याप्यनुत्सर्गवर्जनेन त्यक्त्वा, ध्यानाध्ययने - प्राग्वत्, तत्परायणो मुनिः सदाऽपि निभृतेन - मोक्षविनयविनीतेन, चेतसा - मनसा, निर्वाणायसिद्ध्यधिगमार्थम्, मन्यतेऽनया मतिः - तत्त्वनिश्चयः, तां
आर्षोपनिषद् - सन्दध्यात् - चन्दनगन्धवदात्मनि परिणमय्य भावयेत्। ज्ञानयोगस्य शुद्धतपस्त्वेन निकाचितकर्मणामपि क्षयापादनेन निर्वाणनिबन्धनत्वात्, तदुक्तम् - ज्ञानयोगस्तपःशुद्धः-मित्याहुर्मुनिपुङ्गवाः। तस्मान्निकाचितस्यापि, कर्मणो युज्यते क्षयः - इति (अध्यात्मसारे।।१८-१६४।।)। ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुञ्चति - इति (अध्यात्मोपनिषदि।।२-३।।) च। अतः प्रथमतस्तु स्नेहबन्धनमुक्तौ यतितव्यम्, यस्तु तदेव दृढीकरोति, तमधिकृत्याहजे भिक्खु सखेयमागते
वयणं कण्णसुहं परस्स बूया। सेऽणुपियभासए हु मुद्धे
आतट्टे णियमा तु हायती।।२७-४।। यो भिक्षुः सखेदम् - लोकविजयाधुग्रचर्यानिर्वेदसहितं भावम्, आगतः - कथञ्चित् प्राप्तः, परस्य गृहस्थस्य, तदावर्जनाभिसन्धिना कर्णसुखम् - श्रोत्रसौख्योत्पादकम्, वचनम् - वाक्यम्, ब्रूयात् - कथयेत्, जनचित्तरञ्जनं कुर्यादित्याशयः।
सः - उक्तभिक्षुः, अनुप्रियभाषकः - सागारिकानुवर्तनेन तदावर्जनैकचित्ततया श्रामण्यमुद्रां त्यक्त्वा तदभीष्टवादी, हुः - खेदे, मुग्धः - स्वार्थभ्रंशपरत्वेन मूढः, आत्मार्थे - स्वसिषाधयिषितप्रयोजने, मोक्षहेतुज्ञानाद्याराधनायामित्यर्थः, नियमात् - अवश्यमेव, हीयते - यावदुच्छेदमपि हानिमाप्नोति।