________________
५८
Re-ऋषिभाषितानि रुष्टस्तद्वचसा चण्डप्रद्योतश्चण्डशासनः। चतुरङ्गचमूचक्रचञ्चुश्चक्रे प्रयाणकम्।।१६।। सर्वतः सेनयाऽऽवेष्ट्य, सुंसुमारपुरं स्थितः। तस्थौ चाल्पबल इति, धुन्धुमारः पुरान्तरा(रम्)।।१७।। नागागारे तदा तस्थौ, महर्षिश्चत्वरान्तिके। धुन्धुमारो नृपो भीतः, प्रत्यर्थी बलवानिति।।१८।। नैमित्तिकं ततोऽपृच्छत्, पुरेशः सोऽप्युपश्रुतिम्। शृण्वानो भापयामास, भृशं क्रीडापरान् शिशून्।।१९।। भीतास्ते कम्पमानाङ्गा, ययुरित्तकान्तिकम्। स दैवात् कृपया तेषां, मा भीर्दानं ददौ तदा।।२०।। शोभनोपश्रुतिरिति, ज्ञात्वाऽऽगत्य निमित्तवित्। धुन्धुमारमुवाचोच्चैर्जयं जानीहि हस्तगम्।।२१।। ज्ञात्वाऽध्वखिन्नं तत् सैन्ये, मध्याह्ने पू:पतिश्छलात्। उपरिष्टात् पपातेव, श्येनश्चटकपेटकम् (के)।।२२।। भग्नं रिपुबलं बद्ध्वाऽऽनीतस्तदधिपः पुरे। विशुद्धाध्वाध्वनीनानां जयः प्रायः कराश्रयी(य)।।२३।। पुरद्वाराणि बद्धानि, प्रद्योतो भूभुजोदितः। वातः कुतोमुखो वाति, तव भो ! ब्रूहि पार्थिव !।।२४।। प्रद्योतोऽप्याह यद् वेत्सि, धुन्धुमार ! कुरुष्व तत्। सोऽप्युवाच महाराज !, हतेन मम किं त्वया ?।।२५।।
आर्षोपनिषद् - ततोऽङ्गारवती तस्मै, दत्त्वा(त्ता)ऽऽडम्बरपूर्वकम्। पुरद्वाराणि मुक्तानि, प्रद्योतोऽस्थात् पुरे सुखम्।।२६।। केऽप्याहुर्देवमुद्दिश्योपवासो भूभुजा कृतः। डिम्भरूपं कृतं तेन, निमित्तं चाव(वा वि)लोकितम्।।२७।। प्रद्योतो द्विरदारूढो, भ्रमन्नल्पपरिच्छदः (म्)। पुरं वीक्ष्य प्रियां प्रोचे, कथं मेऽभूत् पराजयः ?।।२८।। साधुवागनुभावेन, बभाषेऽङ्गारवत्यपि। हास्यन् नैमित्तिकं साधु, वन्दे त्वामित्यवक् नृपः।।२९।। उपयुक्तोऽभवद् वारत्तकर्षिश्चाव्रतात् स्मृतम्।
मा भीर्दानं तदाऽर्भाना, व्रतिनां व्रतदूषकम्।।३०।। यदार्षम् - 'थेवो वि गिहिपसंगो, जइणो सुद्धस्स पंकमावहइ।।
जह सो वारत्तरिसी, हसिओ पज्जोयनरवइणा।।३१।।' तदालोच्य प्रतिक्रम्य, मिथ्यादुष्कृतपूर्वकम्। वारत्तकमुनिः क्षीणकर्मा प्राप महोदयम्।।३२।। सोऽयं महर्षिः सुचरितोपायमेवाहन चिरं जणे संवसे मुणी, संवासेण सिणेहु वडती। भिक्खुस्स अणिच्चचारिणो अत्तट्टे कम्मा दुहायती
॥२७-२॥ मुनिः-सुचरितेणैव शिवमिति तत्त्वमन्ता श्रमणः, जने एकस्मिन्नेव लोके, तात्स्थ्यात्तद्व्यपदेशाद् ग्रामादावित्यर्थः, चिरम् -