Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 49
________________ Re-ऋषिभाषितानि - - ८१ सञ्जाताऽस्येति पण्डितः। स काले काले ग्लानप्रतिचरणादिप्रत्येकावसरे, क्षणे क्षणे तादृशावसरविरहेऽपि स्वाध्यायसद्ध्यानोपयुक्ततया प्रतिक्षणम्, चकारौ - समुच्चये। कालात् क्रमशो भावमलहानप्रायोग्याध्वनः, काञ्चनस्येव - सुवर्णस्येव, आत्मनो मलम् - कर्मकुवासनात्मकं भावकचवरम्, उद्धरेत् - स्वस्मात्पृथक्कुर्यात्। ___ इदमुक्तं भवति, यथा छेददाहक्रमेण सुवर्णं निर्मलीक्रियते, तथा तत्तत्कालोचितानुष्ठानासेवनाद्बुद्धिमताऽऽत्मा निर्मलीकर्तव्यः, इत्थमेव मेधादिसाफल्यादिति। किञ्च - अंजणस्स खयं दिस्स वम्मीयस्स य संचयं। मधुस्स य समाहारं उज्जमो संजमे वरं।।२८-२२।। अञ्जनस्य - कज्जलस्य प्रतिदिनं म्रक्ष्यमाणतया क्षयम्समाप्तिम्, दृष्ट्वा-प्रत्यक्षमुपलभ्य। इदमुक्तं भवति यथेषदिषदपि गृह्यमाणमञ्जनं कालान्तरे निःशेषीभवति, तथायुरपि प्रतिसमयं तनूभवत् समाप्ति प्रति धावति, नियतकाले चाशेषतया क्षीयते तदेतदञ्जनज्ञातेनोपलभ्य संयम उद्यमो वरतर इत्यग्रे योगः। च - तथा वल्मीकस्य - वामलूरस्य, सञ्चयम् - कृमिभिः क्रियमाणमुपचयम्, दृष्ट्वेति वर्तते। यथा कृमिभिरणुरणुरुपनीयमानो महतो वल्मीकस्य हेतुतां प्रतिपद्यते। तथा क्षणं क्षणमपि संयमाराधनेन सफलीकृतं महते फलाय सम्पद्यत इति भावः। स्यादेतत्, धनमपि प्रतिदिनं सञ्चीयमानमस्माकं समीहितसिद्धिविधौ प्रत्यलमित्यस्माकं तु तत्सञ्चय एवाभियोग ८२ - आर्षोपनिषद् - इत्यत्राह - मधुनश्च मक्षिकाभिरतियत्नेन स्तोकं स्तोकमुपनीय सञ्चितस्य समाहारम्- एकपद एव बर्बरादिजघन्यजनकृतापहरणं दृष्ट्वा संयम एव उद्यमः सञ्चययत्नः वरम्- श्रेष्ठतरः। अयं भावः, कदर्यस्यार्थसङ्ग्रहो राजदायादतस्कराणामन्यतमस्य निधिः - इत्युक्तेः (नीतिवाक्यामृते २-११)। मधुमक्षिकावत्तत्सञ्चितमपि सपदि ह्रियते, यावदन्तेऽन्तक एव सर्वं संहरति, न तु संयमधनमीदृशम्, तदपहारासम्भवात्, तत्फलस्य सानुबन्धभावाच्च। अतोऽत्रैवाभियोगः श्रेयान्। ननु तथापि धनेनैवोत्तमसुखसाधनसंयोग इति प्रत्यक्षमीक्ष्यत इति किं न तत्रैव यतामह इति चेत् ? अत्राह उच्चादीयं विकप्पं तु भावणाए विभावए। ण हेमं दंतकटुं तु चक्कवट्टी वि खादए।।२८-२३।। एतन्ममोत्कृष्टं सुखसाधनमेतन्मध्यमं निकृष्टं चैतदितिलक्षणमुच्चादिकं विकल्पम् - आभिमानिकं सङ्कल्पमात्रम्, भावनया - अनादिकुवासनया, विभावयेत्, मूढजन्तुर्विमृशतीत्यर्थः, तत्त्वत उच्चत्वादेरेवाभावात्, वस्तुस्वरूपस्य रागादेश्च परावर्त्तनशीलत्वात्। ___ यद्वा योऽनन्तरोक्त उच्चादिको विकल्पः, तं भावनया - तत्त्वचिन्तनेन विभावयेत्, किंस्वरूपया भावनयेत्याहयच्चक्रवर्त्यपि - सार्वभौमोऽपि हैमम्- सौवर्णम्, दन्तधावनार्थं काष्ठं दन्तकाष्ठम्, न-नैव खादयेत्, दन्तधावन उपयुद्ध्यात्, प्रकृतानुचितत्वात्। चक्री-अपि प्राकृतजनवत् प्राकृतदन्तकाष्ठमेव

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132