Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ 70 ऋषिभाषितानि कषायाः क्रोधादयः, तस्य कृषिसत्कानुष्ठानस्य, मर्दनेनापास्यत इति मर्दनं मलनं वा - तुषादिकचवरः, स च कृषावेवोत्पन्नोऽपि त्यज्यत एवमध्यात्मकृषावपि कथञ्चिदुत्पन्नाः सञ्ज्वलनकषाया हातव्याः । कथमेषां हानमित्याह- कीर्त्तिः निर्जितकषायानां महात्मनां श्लाघा प्रमोद इति यावत्, सैव वातः - मलनानुगुणः पवनः, स तत्क्षमः कषायमर्दने समर्थः । निर्जरा तु, लिप्यतेऽनयेति लिपा तैलम्, कोथादेः संरक्षणार्थं तद्युक्तंतल्लिप्तमामिषम् - धान्यरूपं भोज्यं वस्तु - लिपामिषम्, लिङ्गव्यत्ययः प्राकृतत्वात् । यद्वा लिप्यत इति लिपम् स्नेहोपदिग्धं धान्यम्, तल्लक्षणमामिषं भोज्यं वस्तु यत्र सा लिपामिषा - धान्यवसतिः कोष्ठागार इति यावत् । सैव लोके कृषिफलतयेष्यत इत्यध्यात्मकृषावपि निर्जराया एव फलस्थानीयतया तद्व्यपदेशः । इति - एवमध्यात्मकृषया, दुःखानाम् - शारीरमानसकष्टानाम्, निष्कृतिः - प्रतिक्रिया भवति, अयं भावः, निर्जराप्रकर्षेण कृत्स्नकर्मक्षयः, ततो विशुद्धात्मस्वरूपाविर्भावः, स च परमानन्दमय एवेत्युपपन्नैव दुःखसन्दोहनिष्कृतिः, एतदेवाह एतं किसिं कसित्ताणं, सव्वसत्तदयावहं । माहणे खत्तिए वेस्से, सुद्दे वा पि विसुज्झती ।। - ५३ - - ।।२६-१६।। एतां - अनन्तरोक्ताम्, सर्वसत्त्वदयावहाम्- सर्वजीवेष्वनुग्रहकारिणीम्, कृषिम् - अध्यात्मकर्षणम्, कृष्ट्वा - कृत्वा, Ashopnisad_2.p65 2nd Proof - आर्षोपनिषद् - N ब्राह्मण, क्षत्रिय, वैश्य, शूद्रो वाऽपि विशुध्यति - कर्मक्षयोपशमक्षयक्रमेण विशुद्धात्मस्वरूपाविर्भावभाग् भवति । एतदेव व्यासत आह ५४ एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि ।। एवमित्यादि प्राग्वत् । इति षड्विंशतितमे मातङ्गीयाध्ययन आर्षोपनिषद् ।। ।। अथ सप्तविंशतितमोऽध्यायः ।। अनन्तराध्ययनेऽध्यात्मिककृषिरभिहिता, सैव सच्चरित्रमित्यत्र तद्व्याख्यानमभिधत्ते " साधु सुचरितं अव्वाहता समणसंपया" वारत्तणं अरहता इसिणा बुझतं । । २७ - १ ।। साध्नोत्यर्थं मोक्षलक्षणमिति साधु, सर्वत्र विहितक्रियागतावितथभावेन समन्विततया शोभनतमं चरितम् चारित्रम्सुचरितम्, न च साधावेव शोभनतरतासमावेशात्पुनरुक्तिरिति वाच्यम्, तारतम्योपलम्भात्, यदागमः - चरित्ताराहणा णं भंते ! कइविहा पण्णत्ता ? तिविहा पण्णत्ता, तं जहा - उक्कोसिया मज्झिमा जहण्णा इति ( व्याख्याप्रज्ञप्तौ । । ८ - १० ।। ) । मोक्षसाधकता तु त्रिष्वपि यदुक्तम् आराधनाश्च तेषां तिस्रस्तु - -

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132