________________
70 ऋषिभाषितानि
कषायाः क्रोधादयः, तस्य कृषिसत्कानुष्ठानस्य, मर्दनेनापास्यत इति मर्दनं मलनं वा - तुषादिकचवरः, स च कृषावेवोत्पन्नोऽपि त्यज्यत एवमध्यात्मकृषावपि कथञ्चिदुत्पन्नाः सञ्ज्वलनकषाया हातव्याः । कथमेषां हानमित्याह- कीर्त्तिः निर्जितकषायानां महात्मनां श्लाघा प्रमोद इति यावत्, सैव वातः - मलनानुगुणः पवनः, स तत्क्षमः कषायमर्दने समर्थः । निर्जरा तु, लिप्यतेऽनयेति लिपा तैलम्, कोथादेः संरक्षणार्थं तद्युक्तंतल्लिप्तमामिषम् - धान्यरूपं भोज्यं वस्तु - लिपामिषम्, लिङ्गव्यत्ययः प्राकृतत्वात् । यद्वा लिप्यत इति लिपम् स्नेहोपदिग्धं धान्यम्, तल्लक्षणमामिषं भोज्यं वस्तु यत्र सा लिपामिषा - धान्यवसतिः कोष्ठागार इति यावत् । सैव लोके कृषिफलतयेष्यत इत्यध्यात्मकृषावपि निर्जराया एव फलस्थानीयतया तद्व्यपदेशः । इति - एवमध्यात्मकृषया, दुःखानाम् - शारीरमानसकष्टानाम्, निष्कृतिः - प्रतिक्रिया भवति, अयं भावः, निर्जराप्रकर्षेण कृत्स्नकर्मक्षयः, ततो विशुद्धात्मस्वरूपाविर्भावः, स च परमानन्दमय एवेत्युपपन्नैव दुःखसन्दोहनिष्कृतिः, एतदेवाह
एतं किसिं कसित्ताणं, सव्वसत्तदयावहं ।
माहणे खत्तिए वेस्से, सुद्दे वा पि विसुज्झती ।।
-
५३
-
-
।।२६-१६।।
एतां - अनन्तरोक्ताम्, सर्वसत्त्वदयावहाम्- सर्वजीवेष्वनुग्रहकारिणीम्, कृषिम् - अध्यात्मकर्षणम्, कृष्ट्वा - कृत्वा,
Ashopnisad_2.p65 2nd Proof
- आर्षोपनिषद् - N
ब्राह्मण, क्षत्रिय, वैश्य, शूद्रो वाऽपि विशुध्यति - कर्मक्षयोपशमक्षयक्रमेण विशुद्धात्मस्वरूपाविर्भावभाग् भवति । एतदेव व्यासत आह
५४
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि ।।
एवमित्यादि प्राग्वत् । इति षड्विंशतितमे मातङ्गीयाध्ययन आर्षोपनिषद् ।।
।। अथ सप्तविंशतितमोऽध्यायः ।। अनन्तराध्ययनेऽध्यात्मिककृषिरभिहिता, सैव सच्चरित्रमित्यत्र
तद्व्याख्यानमभिधत्ते
" साधु सुचरितं अव्वाहता समणसंपया" वारत्तणं अरहता इसिणा बुझतं । । २७ - १ ।।
साध्नोत्यर्थं मोक्षलक्षणमिति साधु, सर्वत्र विहितक्रियागतावितथभावेन समन्विततया शोभनतमं चरितम् चारित्रम्सुचरितम्, न च साधावेव शोभनतरतासमावेशात्पुनरुक्तिरिति वाच्यम्, तारतम्योपलम्भात्, यदागमः - चरित्ताराहणा णं भंते ! कइविहा पण्णत्ता ? तिविहा पण्णत्ता, तं जहा - उक्कोसिया मज्झिमा जहण्णा इति ( व्याख्याप्रज्ञप्तौ । । ८ - १० ।। ) । मोक्षसाधकता तु त्रिष्वपि
यदुक्तम्
आराधनाश्च तेषां तिस्रस्तु
-
-