________________
70 ऋषिभाषितानि
बद्धा: - धृतियोक्त्रसुसम्बद्धाः । न हि प्रवचनप्रतिपत्तिमन्तरेण प्रधानगुणप्राप्तिरिति । एवम्
पंचेव इंद्रियाणि तु, खंता दंता य णिज्जिता । माहणेसु तु ते गोणा, गंभीरं कसती किसिं । । २६ - १२ ।। पञ्चैवेन्द्रियाणि तु क्षान्तानि - अमनोज्ञानामपि समनुभवने सक्षमाणि यतो दान्तानि - स्वैरभावतः प्रत्याहृत्य नियन्त्रितानि, किमुक्तं भवति - निर्जितानि - वशीकृतानि भवन्ति, तानि तु ब्राह्मणेषु व्यवस्थितानि, ब्राह्मणसत्कानीति यावत्, गावः बलीवर्दभूतानि गच्छन्ति प्राप्नुवन्त्येनां शश्वच्छस्यलिप्सव इति गम्भीरा, ताम्, कृषिं भावकर्षणम्, कृषन्ति वचनव्यत्यासः प्राकृतत्वात्। उक्तसामग्रीफलमाह
कुर्वन्ति,
-
तत्तो बीयं अवंझं से, अहिंसा णिहणं परं । ववसातोय धणं तस्स, जुत्ता गोणा य संगहो ।
-
५१
-
।।२६-१३।।
ततोऽस्यां कृष्यामुप्तं बीजमवन्ध्यम् अवश्यं फलावहं भवति, अप्रतिहतशक्तिकस्य बीजस्य सहकारिसमवधाने सति फलावहतानियमात्। अहिंसैवात्र परं नितरां खन्यतेऽनेनेति निखनम् - जित्याभिधं महाहलम्, तस्य - ब्राह्मणस्य व्यवसायश्च
१. शस्यशब्दस्यार्थद्वयम् - धान्यं कल्याणं च । २ मुद्रितेषु य विना । ३. णिहण नि + खन् ।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - वीर्यानिगूहनेन सर्वात्मनोद्यमः, स एव धनम् द्रव्यम् । युक्ताः - समित्यादावुपयुक्ताः, गावश्च - इन्द्रियरूपा बलीवर्दाः, त एव सङ्ग्रहः - कृषिप्रधानाङ्गसम्पादनम्। ईर्याद्युपयुक्तचक्षुरादीन्द्रियाण्येवाध्यात्मकृषौ प्रधानाङ्गतां भजन्त इति । तथा
५२
धिती खलं व सुयिकं, सद्धा मेढी य णिच्चला। भावणा उ वती तस्स, इरिया दारं सुसंवुडं । । २६ - १४ ।। धृतिः - व्यसनाशनिसन्निपातेऽप्यविचलितप्रकृतिभावः, सैव शुचिकम् - पवित्रम्, खलमिव - धान्यनिष्पन्नवनक्षेत्रमिव श्रद्धा परानुरोधशून्योऽध्यात्मकृषिविषयो निजाभिलाषः, सैव निश्चला स्थिरस्वभावा, मेथि: - खले गोबन्धार्थं दारु, चः - समुच्चये, भावनास्तु - अनित्यादिकाः, तस्य प्रकृतकृषिसाधनसन्दोहस्य, वृत्ति: - वाट कण्टकादिवेष्टनम् ईर्ष्या - सामान्यतः साधुक्रिया, सैव सुसंवृतं द्वारम्, तदनुभावेनाभिभवप्रवेशनिषेधभावात्, यदाह आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र क्वचनाभिभवनं स्यात् - इति । किञ्च
-
-
-
कसाया मलणं तस्स, कित्तिवातो य तक्खमो। णिज्जरा तु "लिवामीसा, इति दुक्खाण णिक्खति । ।
।।२६-१५ ।।
१. वाड इति ख्यातः । २ प्रशमरती । । ११९ ।। ३ घ झ-त- तक्खमा । ४. घ. झ.त. -लवा। हस्तादर्शषु लिया।