SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 7- ऋषिभाषितानि ४९ अत एव कोषः - अनृतं कृषिः, न ऋतमनृतं पापकर्मत्वादिति । किमुपज्ञमिदमित्याह - मातङ्गेनार्हतर्षिणोदितम् । दिव्यां कृषिमेव तत्तत्कृषिसाधनोत्प्रेक्षया व्याख्याति - आता छेत्तं, तवो बीयं, संजमो जुअणंगलं । झाणं फालो निसित्तो य, संवरो य बीयं दढं ।। २६-९ ।। आत्मा क्षेत्रम्, तपो बीजम्, संयमः - पञ्चाश्रवविरमणपञ्चेन्द्रियनिग्रहकषायजयदण्डत्रयविरतिलक्षणः, स युगलाङ्गले, तत्र युगम् - वोढृस्कन्धकाष्ठम्, लाङ्गलम् - हलम् । ध्यानम् धर्मशुक्ललक्षणम्, फलति निष्पद्यते कृषिरनेनेति फाल: - कुशिकः, लोहकुशी इति ख्यातः, तमेव विशेषयतिनिशितश्च तीक्ष्णः, संवरः - आश्रवनिरोधरूपः चः - अप्यर्थः, दृढम् अप्रतिहतसामर्थ्यम्, बीजम् । संवरोऽपि बीजमित्युक्त्या पुनरुक्तिः परिहृता । किञ्च - - - - अकूडत्तं च कूडेसुं, विणए नियमेण वि । तितिक्खा या हलीसा तु, दया गुत्ती य पग्गहा ।। ।।२६-१० ।। क्षेत्रपक्षेऽसमतयोच्चप्रदेशेषु, आत्मपक्षे स्वस्मिन् कूटेषु वञ्चकेषु, चः - प्राग्वृत्तापेक्षया समुच्चये, अकूटत्वम् - क्षेत्रपक्षे उच्चावचतावर्जितभावः, प्रस्तावात्तदापादनम्, मत्येन समी - १. अभिधानचिन्तामणी । ।८६६ ।। २. व्युत्पत्तिरत्नाकरे ।।८६६ ।। ३. क-ढ-णपियमेण वि प-ख-ज-ठ-थ-ध-न- नियमणे वि ते। ग-घ-झ-त- णियमणे ठिते । चणियमेण ठिते ट णियमाण वि ते। ४. क-ख-ज-ट-ठ-ढ-ण-थ-न- या ह० गघत झ य ह० । ध-प- गा ह० । ५. समार इति ख्यातेन । Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - करणमिति यावत्। आत्मपक्षे सरलत्वम्, मायिष्वप्यमायित्वमित्यर्थः, न च व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ' इत्याद्युक्तेरनिष्टसाधनतयाऽस्य विधित्वासम्भव इति वाच्यम्, तस्य राजनीतिविषयतया प्रकृतेऽनुपयोगात् । विनये क्षेत्रपक्षे हलस्य भूमिविलेखनानुगुणे सञ्चारणे, आत्मपक्षे ज्ञानादिविनये, अपिः - प्रगुणत्वादिस्थितोऽत्रापि तिष्ठेदित्यर्थद्योतकः, नियमेन - अवश्यमेव, विणओ गुणाण मूलं - इत्युक्तेस्तद्विरहे शेषगुणासम्भवप्रसक्त्या तत्र नियतावस्थानमुदितम् । या तितिक्षा सहनशीलता, सा तु हलेषा - हलस्य ईषा सीता दण्डपद्धतिरिति यावत् । दया - अनुकम्पा, गुप्तिश्च - मनोवाक्कायसंवररूपाः, प्रग्रहाः - सूर्यांशवः, ते चौषधिप्ररोहोपयोगिनः, यद्वा प्रगृह्यन्ते कर्षकैरिति प्रग्रहाः - खनित्रादयः । तथा - ५० - सम्मत्तं गोत्थणवो, समिती उ समिला तहा। धितिजोत्तसुसंबद्धा, सव्वण्णुवयणे रया । । २६ - ११ ।। सम्यक्त्वं गोक्षणकम् - गोदारणम् - कुद्दालः । समितिः ईर्यादिका, सा तु शमिला - युगकीलकः । तथा ये सर्वज्ञवचने - केवलिप्रज्ञप्ते धर्मे रताः कृतपक्षपाताः, ते, धृतिरेव योक्त्रम् - आबन्ध: - धृतियोक्त्रम्, तेन सुतरां सम्यक् - १. किरातार्जुनीये ।। ।। २. ध-क-ख-ग-च-ण-थ-प- गोच्छणवो घ-झ-त- गोत्थणवो । ठ-ज- गोच्छणवे। ट- गोच्छणवा ढ- गोच्छणगो न मोछणवो। ३. गावं पृथिवीं क्षणोतीति । ४. जोत्र इति ख्यातः ।
SR No.009617
Book TitleRushibhashitani Part 2
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size836 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy