________________
४८
नल-ऋषिभाषितानि
सबिंदिएहिं गुत्तेहिं, सच्चप्पेही स माहणे। सीलंगेहिं णिउत्तेहिं, सीलप्पेही स माहणे।।२६-६।।
यः सर्वेन्द्रियैः - अशेषस्पार्शनादिकरणैः, गुप्तैः - स्वैरविषयप्रचाराद्रक्षितैः, सत्यम् - सद्भ्यो हितम्, यत्किञ्चिदपि कल्याणनिबन्धनमेव सानुबन्धमनुष्ठानमित्यर्थः, तदेवोपादेयतया प्रेक्षितुं शीलमस्येति सत्यप्रेक्षी, स ब्राह्मणः - परमार्थब्राह्मण्यसम्पन्नो भवति। यदुक्तम् - योगस्तपो दमो दानं, सत्यं शौचं दया श्रुतम्। विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् - इति । ___तथा शीलाङ्गः - आगमोदिताष्टादशसहस्रसङ्ख्यैः शीलावयवैः, तन्निष्पत्तिश्चैवम् - जोए करणे सण्णा, इंदियभूमादिसमणधम्मे य। सीलंगसहस्साणं, अट्ठारसगस्स णिप्फत्ती - इति । अत्र प्रक्रिया - ण करेति मणेणाहारसण्णा विप्पजढगो उ णियमेण। सोइंदियसंवुडो पुढविकाय - आरंभ खंति जुओ - इति शेषशीलाङ्गेषु दिक्।
तैर्नियुक्तैः - सन्ततमभ्यस्ततया वचनानुष्ठानविषयादसङ्गानुष्ठानविषयतां प्रापितैः शीलमेव जीविततया प्रेक्षितुं शीलमस्येति शीलप्रेक्षी, स एव ब्राह्मणो भवति। एतेन लक्षणलक्षितस्य शूद्रस्यापि ब्राह्मणत्वमुक्तम्, इतरस्य तु ततोऽप्यधमतैव, यदाह - शूद्रोऽपि शीलसम्पन्नो, गुणवान् ब्राह्मणो भवेत्। ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत्।। चतुर्वेद्यपि दुर्वृत्तः, शूद्रात्
- आर्षोपनिषद् - पापतरः स्मृतः - इति । प्रधानलक्षणमाख्यायोपसंहरति
छज्जीवकायहितए, सव्वसत्तदयावरे। स माहणे त्ति वत्तव्वे, आता जस्स विसुज्झती।।२६-७।।
षड्जीवकाय: - पृथिव्यादिजीवसमूहः, तेषु हितकः - कृतमैत्रीभावः, अत एव सर्वसत्त्वेषु - कृत्स्नजीवेषु, दया - करुणा, तस्यां परः - तत्परः, तथा यस्यात्मा विशुध्यति - उत्तरोत्तरविशुद्धाध्यवसायपरिणत्या भावमलमुत्सृजति, स एव ब्राह्मण इति वक्तव्यः, नान्यः। तदस्य परमार्थब्राह्मणस्यानुष्ठानमुपमाविशेषेण स्फुटयति
दिव्वं सो किसिं किसेज्जा णो वप्पिणेज्जा मातंगेणं अरहता इसिणा बुइत।।२६-८।।
सः - ब्राह्मणः, दिव्याम् - लोकोत्तराम्, जघन्यतोऽपि स्वर्गप्रापिकां वा, कृषिम् - कर्षणं हलकर्मकरणमिति यावत्, कृषेत् - कुर्यात्, विशेषसमवधाने विशेषाणामपि सामान्याभिधानतेति। नो - नैव, अवार्पयेत् - प्रकृतानुष्ठानखेदादिना दात्रे तत्प्रत्यर्पणं कुर्यात्, त्यजेदिति यावत्। यद्वा न, वप्पिण - देश्यशब्दः क्षेत्रपर्यायः, लुप्तद्वितीयान्तोऽयं शब्दः, लौकिककृषिभूमिमित्यर्थः, अयेत् - गच्छेत्, प्रस्तुतप्रतिपक्षत्वात्, पापत्वाच्च तस्य, यदाहुः परेऽपि - हस्ततलप्रमाणां तु, यो भूमि कर्षति द्विजः। नश्यते तस्य ब्रह्मत्वं, शूद्रत्वं त्वभिजायते - इति ।
१. वशिष्ठस्मृतौ ।।१-६-२० ।। २. पञ्चाशके ।।१४-३ ।। ३. पञ्चाशके ।।१४-६।।
Ashopnisad_2.p65
2nd Proof
१. इतिहासे। २. पञ्चाशके ।।१४-६।। ३. वप्पिण + एज्जा (इं गतौ)। ४. पाराशरस्मृती।