________________
-ऋषिभाषितानिण माहणे धणुरहे, सत्थपाणी ण माहणे। ण माहणे मुसं बूया, चोज्जं कुज्जा ण माहणे।।
॥२६-४|| ब्राह्मणः - सव्वमप्पे जिए जिअं - इति ज्ञानविभूषितः, ब्रह्म ज्ञानमणतीति ब्राह्मण इति निरुक्तेः। धनुश्च रथश्च यस्य सङ्ग्रामोद्यतस्य स धनुरथः, न - नैव सम्भवति, उक्त ब्राह्मणत्व सद्भावेऽस्य पराक्रमणाभियोगस्यैवासम्भवात्। अत एव ब्राह्मणो माहनो वा, शस्त्रं पाणौ यस्य स शस्त्रपाणिः, न - नैव सम्भवति, उक्तं च - यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणम् - इति । तथा ब्राह्मणो मृषाम् - असत्यं, न - नैव ब्रूयात्, अन्यथा स्वरूपत्यागप्रसङ्गात्, तथा चागमः - कोहा वा जइ वा हासा, लोहा वा जइ वा भया। मुसं न वयइ जो उ, तं वयं बूम माहणं - इति । अन्यत्रापि - यम्हि सच्चं च धम्मो च, सो सुची सो च ब्राह्मणो - इति । तथा ब्राह्मणः, चौर्यम् - स्तेयम्, न - नैव, कुर्यात्, चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहु। न गिण्हाइ अदत्तं जो, तं वयं बूम माहणं - इत्युक्तेः। तथामेहुणं तु न गच्छेज्जा, णेव गेण्हे परिग्गहं। धम्मंगेहिं णिजुत्तेहिं, झाणज्झयणपरायणे।।२६-५।।
- आर्षोपनिषद्___मैथुनं तु - अब्रह्म नैव गच्छेत्, तुपदेनावधारणनियम उक्तः - निरपवादत्वादब्रह्मविरतेः। ब्राह्मण इति वर्तते, तथा चोक्तम् - दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं। मणसा कायवक्केणं, तं वयं बूम माहणं - इति। अन्यत्रापि - ब्राह्मणो ब्रह्मचर्येण - इति । स परिग्रहम् - मूर्छाम्, नैव गृह्णीयात् - आत्मनि परिणमयेत्, यदाह - जहा पोमं जले जाय, नोवलिप्पइ वारिणा। एवं अलित्तं कामेहि, तं वयं बूम माहणं - इति । तदाह - अहेरिव गणाद् भीतः, सौहित्यान्नरकादिव। कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ।। सर्वकामानवलिप्तो ब्राह्मण इति तात्पर्यम्।
एवं निषेधनिकुरम्बमुक्त्वा विधिमाह - धर्माङ्गः - क्षान्त्यादिभिर्धर्मपुरुषावयवैः, नियुक्तैः - चन्दनगन्धवत्परिणतः, क्षान्त्यादीनात्मनि नियोज्येत्याशयः, ध्यानम् - धर्मशुक्ललक्षणम्, अध्ययनम् - वाचनादिपञ्चविधः स्वाध्यायः, तयोः परायणः - तन्मयः, ब्राह्मणो भवतीति गम्यते, तदाह - सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यते यत्र राजेन्द्र !, स ब्राह्मण इति स्मृतः - इति । तथा - शमो दमस्तपः शौचं, सन्तोषः क्षान्तिरार्जवम्। मद्भक्तिश्च दया सत्यं, ब्रह्मप्रकृतयस्त्विमाः - इति । तथा- शिखा ज्ञानमयी यस्य, उपवीतं च तन्मयं। ब्राह्मण्यं सकलं तस्य, इति वेदानुशासनम् - इति । लक्षणान्तरमाह
१. ट-न- महणे धणुरह सत्थ। ठ-ध- महणे धणुरहे सत्थ। प- महाण धणुरह सत्य । २. क- वणुवरे। ख-घ-च-ज-त-थ- धणुरहे। ग- धणुरह । ढ- वणुचरे। झधणुरहे (?हरे)। ३. क-ढ- सत्थु । ख-ग-घ-च-ज-त-थ- सत्थ। ४. ध-न-प- पणमाणे मुसं। ट-ण माणे सुसं । ५. सुत्तनिपाते ।। पृ.५८।। ६. उत्तराध्ययने ।।२५-२३।। ७. उदाने । ।१-९।। ८. सचित्तमित्यर्थः। ९. उत्तराध्ययने ।।२५-२५।।
Ashopnisad_2.p65
2nd Proof
१. उत्तरा.।।२५-२६ ।। २. वेदाङ्कुश उद्धृतम् । पृ.३३ ।। ३. उत्तराध्ययने ।।२५२५ ।। ४. सन्यासगीतायाम् । ७७।। ५. महाभारते ।।१८१-२१ ।। ६. भागवते ।।१११७-१६।। ७. शाट्यायनीयोपनिषदि ।।७।।