________________
ऋषिभाषितानि
माहनाः - साम्प्रतकालीया धिग्जातीयाः, युद्धम् - सङ्ग्रामम्, शिक्षन्ति - धनुर्विद्याद्यध्ययनं कुर्वन्ति ? माहनस्य युद्धशिक्षा माता च वन्ध्या चेतिवद्व्याहतेति प्रश्नतात्पर्यम्। यतः -
रायाणो वणिया जागे, मं(मा)हणा सत्थजीविणो ।
अंधेण जुगे णद्धे विपल्लत्थे उत्तराधरे । । २६ - २।।
-
राजान: नृपाः, ते च प्रायः क्षत्रिया एव भवन्तीति तदुपन्यासः, वणिजः - व्यवहारिणः, वैश्यकुला इति तात्पर्यम् । ते यागे यज्ञकर्मणि प्रवृत्ताः । माहनाश्च ब्राह्मणाः शस्त्रजीविनः खड्गादिप्रहरणधारणतत्प्रयोगकृतप्राणधारणाः । त्रयाणामपि स्वाचारविरुद्धमिदं वृत्तमत्यन्तमसमञ्जसमित्यत्रोदा
हरणमाह- अन्धेन नष्टलोचनयुगलेन युक्तः - सहितः, युद्धकर्मण्ययं मम सहाय इति सम्प्रधार्य प्रगल्भतया नद्धः - कवचितः, तमेव विशेषयति- उत्तरम् - अधिकम्, अहर इति देश्यशब्दोऽसमर्थवाची, ततोऽत्यन्तमशक्त इत्यर्थः, स यथाऽन्धसहायो युद्धाय प्रागल्भ्यमवलम्बमानो विपर्यस्तः - शक्यादिविचारे स्वौचित्यचिन्तने निजहितविषये च नितरां विपर्यासं प्राप्तः, तथा प्रकृतेऽपि द्रष्टव्यम्। यद्येवं विपर्यासः स्यात्, युद्धौत्सुक्यं चानल्पं वर्तते, तर्हि किं कर्तव्यमित्यत्राह -
आरूढा(ढो) रायरहं अडणीए युद्धमारभे ।
-
-
४३
-
१. क-ख-ज-ट-ठ-ढ-थ-ध-न-प- महणा ग-घ-च-त- माहणा। २. क-द-ढ-ध-न-पआरूढा रायहं ख-ग-च-ज-ट-ठ-थ- आरूढा रायरहं घ-त-झ- आरूढो रायरहं । ३. क-ग-ध-च-ज-ट-ठ-ढ-त-ध-न-प- मारभे ख-थ
मारंभे
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - 'धम्माई' पिणिद्धति विवेता बम्हपहुणेय ।। २६- ३ ।।
राजरथम् - श्रेष्ठं पवित्रं वा स्यन्दनम्, पूर्वोक्तं शीलाक्षज्ञानदर्शनसारथिकमध्यात्मरथमित्यर्थः । आरूढः - अभिविधिना कृतव्यवस्थितिः, अडणी-देश्यशब्दोऽयं मार्गपर्यायः, ततो मार्गे शिवपुराध्वनीत्यर्थः। स्वशरीरेणैव विषयसुखपिपासुना स्वैरिणा सार्धं युद्धम् - सङ्ग्रामम्, आरभेत सत्त्वप्रकर्षेणोपक्रमेत्, इमेण चेव जुज्झाहि किं ते जुज्झेण बज्झओ ? जुद्धारिहं खलु दुल्लह इत्याद्यागमवचनमनुस्मरन् ।
किमत्र प्रतिपक्षप्रहरणप्रतिरोधाय कवचं स्यादित्याह - धर्माः
- क्षमादयः, विवेक्ता - लुप्त द्वितीयान्तत्वाद् विवेक्तारम् देहात्मभेदविज्ञानसम्पन्नम्, ब्रह्मप्रभुः विशुद्धशीलस्वामी, गुरुगुणयुक्तो गुरुरित्यर्थः, तेन नेयः - प्रज्ञापनीयतया प्रणेयः, एतेनास्य गीतार्थनिश्रिततया शुद्धचारित्रितोदिता, अत्रापि लुप्तद्वितीयान्तत्वम्, ब्रह्मप्रभुप्रणेयमिति, पिणिद्धंति - सहनशीलतादिलक्षणं कवचं परिधापयन्ति । बाह्यसङ्ग्रामप्रवृत्तौ त्वस्य ब्राह्मणत्वायोग इत्याह -
४४
-
-
१. ख-ज-ठ-थ-ध- भे धंमाइ च-गध-झ-त सधामाई - धम्माइ। ट-न-प- धमाई । २. धर्मपदं प्राकृत उभयलिङ्गमिति मूले 'धम्माई' पदम् । ३. द-ख-ज- बम्हपहुणेय । क- बम्हपहुणाय । ग वम्हपाहुणे ध-झ-त- बम्भपालणा च बम्भपालने ट-ट-ढ-धन-प- वंम्हपहुणेय द वम्हपालणे सम्भाव्यतेऽत्र लिपिदोषः हस्तादर्शपाठेष्वर्थस्य दुःसङ्गतेः, छन्दोभङ्गाच्चेति विचार्य बहुश्रुतैः । ४. पाइयसद्दमहण्णवो । । पृ.७१० ।। ५. ऋषिभाषिते । ।४-२५ ।। ६. आचाराङ्गे ।।१-५-३ ।। १५३-१५४ ।।