________________
7- ऋषिभाषितानि
परिचर्या, तदेव
आगमप्रसिद्धं वृत्तमत्रानुसन्धेयमित्यतिदेशः,
तदार्षम् - वेयणवेयावच्चे, ईरियट्ठाए संजमट्ठाए । तह पाणवत्तियाए, छट्ठे पुण धम्मचिंताए इति । अत्र निर्युक्तिः - नत्थि छुहाए सरिसा वियणा भुंजेज्ज तप्पसमणट्ठा। छाओ वेयावच्चं ण तर काउं अओ भुंजे। इरिअं न वि सोहेई पेहाईअं च संजम काउं । थामो वा परिहाइ गुणऽणुप्पेहासु अ असत्तो - इति । वृत्तिलेश: - नास्ति क्षुधा - बुभुक्षया, सदृशी वेदना, उक्तं चपंथसमा नत्थि जरा, दारिद्दसमो य परिभवो नत्थि । मरणसमं नत्थि भयं, छुहासमा वेणानत्थि ।। तं नत्थि जं न बाहइ, तिलतुसमित्तं पि एत्थ कायस्स । सन्निज्झं सव्वदुहाई देंति आहाररहियस्स ।। ततः तत्प्रशमनार्थम् – क्षुद्वेदनोपशमार्थं भुञ्जीत, तथा छातो- बुभुक्षितः सन् वैयावृत्यं न शक्नोति कर्तुम्, तथा चोक्तम् - गलइ बलं उच्छाहो, अवेइ सिढिलेइ सयलवावारे । नासइ सत्तं अरई, विवड्डए असणरहियस्स – अतो वैयावृत्यकरणाय भुञ्जीत - इति । शिष्टं
-
स्पष्टम् ।
-
-
४१
निदर्शनान्तरमाह - स यथानामको जतुकारकः- लाक्षाकृत्, अङ्गारेष्वग्निकायम् - हुताशं निसृजेत् - अरण्यादिनोत्पात् सङ्क्रमयेत्। किं सम्प्रधार्येत्याह- एष मेऽग्निकायो न विध्यायिष्यति - इन्धनानुभावेन न निर्वाणतामुपयास्यति, जतुं च - लाक्षां च, तापयिष्यामि - मदभीष्टाकारनिष्पत्त्यनुगुण
तयोष्णीकरिष्यामि । एवमित्यादि प्राग्वत् ।
१. स्थानाङ्गे ।।६-३ ।।५०० ।। उत्तराध्ययने । । २६-३२ ।। पिण्डनिर्युक्ती । ।६६२ ।। २. स्थाम बलं प्राण इत्येकोऽर्थः । ३. पिण्डनिर्युक्ती । । ६६३-६६४ ।। ४. पिण्डनिर्युक्तौ । । ६६३-६६४ ।। वृत्ती ।
Ashopnisad_2.p65 2nd Proof
आर्षोपनिषद् -
दृष्टान्तान्तरमाह स यथानामकः, इषुः बाणः, तत्कारकस्तुषैः - तृणविशेषैरग्निकार्य निसृजेदित्यादि पूर्ववत् । इषुं च तापयिष्यामि इषुसत्कलौहभागं तापनेन यथोचितसन्धानाद्य करिष्यामीति भावः । एवमित्यादि प्राग्वत् । पर्यवसितमाह -
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।। एवम् आज्ञायोगानतिक्रमेण, सः - श्रमणो निर्ग्रन्थः, सिद्ध इत्यादि प्राग्वत् । इति पञ्चविंशतितमेऽम्बडाध्ययन आर्षोपनिषद् ।
४२
-
।। अथ षड्विंशतितमोऽध्यायः ।।
अनन्तराध्ययने श्रमणानां सर्वथा निरवद्या जीविकोक्ता, अतस्त एव परमार्थेन ब्राह्मणाः, मा नैव हन्ति परितापनादिविषयीकुर्वन्ति प्राणिनः - माहना इति निरुक्तियोगात्, ततोऽत्र जातिमदं परिहृत्य भावब्राह्मण्यसम्पादनायैवोपदेशमाह" कतरे धम्मे पण्णत्ते ?, सव्वाउसो ! सुणेध मे । किंण्णा बंभणवण्णाभा, युद्धं सिक्खंति माहणा ।।
।।२६-१।। ब्राह्मणत्वसमुचिताचारः,
कतरः - किंस्वरूपः, धर्मः प्रज्ञप्तः - सर्वज्ञैः प्रतिपादितः, तदहं निवेदयामि, हे सर्वेऽप्यायुष्मन्तः ! मम निवेदयतस्तद्वक्तव्यं शृणुत । कथं ब्राह्मणवर्णः भरतचक्रवर्त्तिस्थापिता माहनाभिधा जातिः, श्रावकनिकर इत्यर्थः, तदाभा - तन्नाममात्रसादृश्यभाजः, सान्वर्थताविरहात्,
१. घ-झ-त-थ-ट- किणा। न- किंण्णा ।
-
-
-