________________
ऋषिभाषितानि
३९
दृष्टान्तमत्र बोध्यम्, तच्च मधुबिन्दुरसास्वादलोलुपतया गजाजगरमधुमक्षिकादंशादिदुःखोपेक्षाकारिमनुष्योदाहरणं सम्भाव्यते, अत्र विस्तरार्थः प्रसिद्ध एव । तदेतन्निदर्शनेन हा विसमा हा विसमा, विसया जीवाण जेहि पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुक्खाई पावंता - 'इत्यादिभावनया कामनिकारेणाज्ञायोगः सुकर एवेति
भावः ।
यद्वा कथमनादिकालीनमोहस्याज्ञायोगेन विघात इत्यत्राहहस्तिमहावृक्षनिदर्शनम्, यथा ह्यनेकशतवर्षप्राचीनमपि विशालं विटपिनं कुञ्जर उन्मूलयितुं शक्तः, एवमाज्ञायोगो विद्यमानस्यातिभैरवस्यापि कर्मण उदयनिरोधे प्रत्यलः, एतच्च णो मणसा वि पादुभावो भवति इत्यनेन साक्षादुक्तमेव । तदाहुराचार्या:परिसुद्धाणाजोगा, पाएणं आयचित्तजुत्ताणं । अइरोद्दं पि हु कम्मं, ण फलइ तहभावओ चेव इति ।
-
-
तथा तैलपात्रधर्मम् तैलेनात्यन्तं भृतं पात्रं हस्ते धृतं प्रमादलेशेनापि बिन्दुमुज्झतीत्येवम्भूतं तत्स्वभावं विचिन्त्याज्ञायोगानुष्ठानं सुकरम्। तैलपात्रधरदृष्टान्तं सुप्रसिद्धम्, यथा तेन मरणभयेन कामत्यागः कृतः, अत्यन्तं दुष्करमप्यनुष्ठितम्, तथा प्रकृतेऽपि बोध्यमित्याशयेन तैलपात्रधर्ममितिमात्रेणातिदेशः कृतः ।
तथा किम्पाकफलनिदर्शनम् जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुंजमाणा । ते खुट्टए जीविय पच्चमाणा,
-
१. इन्द्रियपराजयशतके । ८४ ।। २ ऋषिभाषिते । । २५-४ ।। ३. उपदेशपदे । । ३२३ ।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - ओवमा कामगुणा विवागे इति । तदेतन्निदर्शननिकरेण भावितात्मनां न किञ्चिद्दुष्करम् ।
स्यादेतत्, उक्तरीत्यैषां कामत्यागेनाहारोऽपि त्याज्यः, अन्यथा रसास्वादलाम्पट्येन कामहानस्य नामशेषीभवनादिति दृश्यमानमुमुक्षूणामेवानुपपत्तिर्दम्भमात्रं वेति चेत् ? न, अरक्तद्विष्टभावेन संयमयात्रानिर्वाहमात्रमेव तैरभ्यवहरणात्, अत्रैव निदर्शनान्याह - स यथानामकः शाकटिकः - शकटेन गन्या चरणकर्ता, अक्षम् - रथावयवविशेषम्, प्रक्षेत् - तैलाभ्यङ्गनं कुर्यात् । किं सम्प्रधार्येत्याह- एष मे न भक्ष्यति आमर्दनं प्राप्स्यति, प्रक्षणानुभावेन, भारं च मे धान्यादिभारितशकटस्य वहिष्यतीति । न चास्याक्षम्रक्षणविधावभिष्वङ्गः, उक्तरीत्या सप्रयोजनत्वेन मात्रयैवाभ्यञ्जनकरणात् ।
एवमेवोपमया श्रमणः तपोधनः, श्राम्यति तपसेति निरुक्तेः, श्रमु खेदे तपसि च । द्रव्यभावग्रन्थान्निष्क्रान्तः - निर्ग्रन्थः, स षड्भिः स्थानैः पुष्टालम्बनैराहारमाहारयन् - उद्गमादिदोषवर्जितं भक्तमिङ्गालादिदोषपरिहारेणाभ्यवहरन् नातिक्रामति कामत्यागिमर्यादाम्, जिनाज्ञां वा । एवमाहारयनप्यसौ कामत्याग्येवेत्यभिप्रायः, आज्ञायोगाराधनाच्च, यदाज्ञा - व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च इति । तद्रीत्याऽऽहारोऽपि कारणषट्कोपस्थितावित्युक्तमिति तान्येवाचष्टे - वेदना - क्षुत्पीडा, वैयावृत्यम् - ग्लानादि
१. इन्द्रियपराजयशतके ।।१४।। २ प्रशमरतौ । ।१३५ ।।
४०
-
-
-
-