Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 38
________________ Re-ऋषिभाषितानि - बहुकालम्, मासकल्पादिपूर्तावप्युर्ध्वकालमित्याशयः, न संवसेत्, पुष्टालम्बनमन्तरेण नैव निवासं कुर्यात्। यतः संवासेन - लोकेन सह वासकरणेन, अन्योन्यस्य स्नेहः-प्रेम, वर्धते संयमप्रतिबन्धकताप्रायोग्यां स्फातिं प्रतिपद्यते। यदुक्तम् - संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि। अन्योन्यस्य च विश्वासः, श्वपचेन शुनो यथा - इति (महाभारते १२-१३९-४०) ____ तस्मात्संवासं परिहाय सूत्रोक्तविहारे यतितव्यम्, यतः अनित्यचारिणः - वसतिभिक्षाचार्यादौ सर्वत्र नित्यतापरिहारेण विहरतः, भिक्षोः - श्रमणस्य, आत्मनोऽर्थः - प्रयोजनम्आत्मार्थ:- मोक्षः, तस्मिन् - तत्साधनविधौ, कर्माणि - ज्ञानावरणादीनि, द्विधायन्ते-भेदमुपयान्ति, आज्ञायोगस्य कर्मवियोगावहत्वस्वाभाव्यात्। अतः - पयहित्तु सिणेहबंधणं झाणज्झयणपरायणे मुणी। णिधुतेण सया वि चेतसा णिव्वाणाय मतिं तु संदधे ॥२७-३।। स्नेह एव बन्धनम् - स्नेहबन्धनम्, न पेमरागा सममत्थि बंधो-इत्युक्तेः, प्रजहाय - प्रकर्षण - तल्लेशस्याप्यनुत्सर्गवर्जनेन त्यक्त्वा, ध्यानाध्ययने - प्राग्वत्, तत्परायणो मुनिः सदाऽपि निभृतेन - मोक्षविनयविनीतेन, चेतसा - मनसा, निर्वाणायसिद्ध्यधिगमार्थम्, मन्यतेऽनया मतिः - तत्त्वनिश्चयः, तां आर्षोपनिषद् - सन्दध्यात् - चन्दनगन्धवदात्मनि परिणमय्य भावयेत्। ज्ञानयोगस्य शुद्धतपस्त्वेन निकाचितकर्मणामपि क्षयापादनेन निर्वाणनिबन्धनत्वात्, तदुक्तम् - ज्ञानयोगस्तपःशुद्धः-मित्याहुर्मुनिपुङ्गवाः। तस्मान्निकाचितस्यापि, कर्मणो युज्यते क्षयः - इति (अध्यात्मसारे।।१८-१६४।।)। ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुञ्चति - इति (अध्यात्मोपनिषदि।।२-३।।) च। अतः प्रथमतस्तु स्नेहबन्धनमुक्तौ यतितव्यम्, यस्तु तदेव दृढीकरोति, तमधिकृत्याहजे भिक्खु सखेयमागते वयणं कण्णसुहं परस्स बूया। सेऽणुपियभासए हु मुद्धे आतट्टे णियमा तु हायती।।२७-४।। यो भिक्षुः सखेदम् - लोकविजयाधुग्रचर्यानिर्वेदसहितं भावम्, आगतः - कथञ्चित् प्राप्तः, परस्य गृहस्थस्य, तदावर्जनाभिसन्धिना कर्णसुखम् - श्रोत्रसौख्योत्पादकम्, वचनम् - वाक्यम्, ब्रूयात् - कथयेत्, जनचित्तरञ्जनं कुर्यादित्याशयः। सः - उक्तभिक्षुः, अनुप्रियभाषकः - सागारिकानुवर्तनेन तदावर्जनैकचित्ततया श्रामण्यमुद्रां त्यक्त्वा तदभीष्टवादी, हुः - खेदे, मुग्धः - स्वार्थभ्रंशपरत्वेन मूढः, आत्मार्थे - स्वसिषाधयिषितप्रयोजने, मोक्षहेतुज्ञानाद्याराधनायामित्यर्थः, नियमात् - अवश्यमेव, हीयते - यावदुच्छेदमपि हानिमाप्नोति।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132