Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 36
________________ Re-ऋषिभाषितानि - जघन्यमध्यमोत्कृष्टाः। जन्मभिरष्टत्येकैः सिध्यन्त्याराधकास्तासाम् - इति (प्रशमरतौ ।।२३३।।)। तदत्राद्यद्वये कालयापनेन विलम्बिततालक्षणव्याघातमापन्नाऽर्थसिद्धिः। अन्तिमे तु नेदृशीत्याह- अव्याहता-विलम्बादिव्याहतिवर्जिता, श्रमणः परमश्रामण्यशाली, तेनैव सम्पद्यते-प्राप्यत इति श्रमणसम्पत् - शिवलक्ष्मीः । साधुसुचरित एव श्रमणसम्पत्त्वाभिधानं तदवन्ध्यहेतुभावात्। इति वारत्तकेनार्हतर्षिणोदितम्। तद्वृत्तं समासतः - वारत्तपुरे जायं, सोहम्मवडंसया चइत्ताणं। सिद्धि विहुयरयमलं, वारत्तरिसिं नमसामि - इति (ऋषिमण्डलप्रकरणे ॥७६।।)। व्यासतस्त्विदम् (ऋषिमण्डलवृत्तौ।। पृ.९७।।) - बहुश्रुतश्च विहरन्, (धर्मघोषर्षिः)वारत्तपुरमीयिवान्। तत्राऽऽस्तेऽभयसेनाख्यो, यथार्थः पार्थिवः पुनः।।१।। मन्त्री वारत्तकस्तत्र, धर्मघोषो महामुनिः। भ्रमन् गोचरचर्यायां, मध्याह्नेऽस्यागमद् गृहम्।।२।। पायसस्थालमानीतं, सर्पिर्मधुसमन्वितम्। दाव्या प्रदीयमानेऽस्मै, पायसे पृषतोऽपतन्।।३।। परिशाटिरितीष्टं न, तदलात्वा मुनिर्ययौ। वारत्तको गवाक्षस्थस्तद् वीक्ष्येदमचिन्तयत्।।४।। किं मन्ये मुनिना तेन, शुद्धा भिक्षेयमुज्झिता ?। तावत् तत्रापतन् बिन्दौ, मक्षिका रसभक्षिकाः।।५।। आर्षोपनिषद् - दैवात् ता जक्षितुं कुड्यमत्स्योऽगात् सरटश्च तम्। सरटं पुनर्मार्जारो, मार्जारं गृहकुर्कुरः।।६।। प्रत्यन्तवासिनः श्वा तं, सङ्ग्रामोऽभूत् तयोर्द्वयोः । युध्यमानौ बहिः प्राप्तावीयुश्चातिथिकुर्कुराः।।७।। स्वामिनां सारमेयानां, सङ्ग्रामोऽभूत् महान् मिथः। मन्त्री दध्यौ ध्रुवं त्यक्ता, सा तेनानेन हेतुना।।८।। चिन्तयंश्चास्मरद् जातिं, लेभे प्रत्येकबुद्धताम्। लिङ्गं देवतयाऽऽनीतमादायाप्याददे व्रतम्।।९।। वारत्तकमुनिः सोऽथ, विहरन्नन्यदा ययौ। सुसुमारपुरे तत्र, धुन्धुमारोऽस्ति पार्थिवः।।१०।। तस्याऽङ्गारवती पुत्री, श्रमणोपासिकोत्तमा। सा परिव्राजिकां वादेऽन्येधुश्चक्रे निरुत्तराम्।।११।। सापल्ये पातयाम्येनां, रुष्टा दध्यौ तपस्विनी। ततोऽस्याः फलके रूपं, विज्ञानाधिक्यतोऽलिखत्।।१२।। चण्डप्रद्योतभूपस्य, दर्शितं तत् तयाऽद्भुतम्। सोऽप्यपृच्छदियं देवी, किन्नरी वा खचारिणी ?।।१३।। तपस्विन्याह भूभतर्मानव्यङ्गारवत्यसौ। धुन्धुमारं प्रति प्रेम्णा, प्रेषीद् दूतं ततो नृपः।।१४।। सोऽप्यूचे प्रार्थ्यते कन्या, विनयेन पिपासया। न प्रसोत्यसौ राज्ञा, धर्षितोऽगादिनान्तिकम्।।१५।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132