Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 30
________________ ऋषिभाषितानि माहनाः - साम्प्रतकालीया धिग्जातीयाः, युद्धम् - सङ्ग्रामम्, शिक्षन्ति - धनुर्विद्याद्यध्ययनं कुर्वन्ति ? माहनस्य युद्धशिक्षा माता च वन्ध्या चेतिवद्व्याहतेति प्रश्नतात्पर्यम्। यतः - रायाणो वणिया जागे, मं(मा)हणा सत्थजीविणो । अंधेण जुगे णद्धे विपल्लत्थे उत्तराधरे । । २६ - २।। - राजान: नृपाः, ते च प्रायः क्षत्रिया एव भवन्तीति तदुपन्यासः, वणिजः - व्यवहारिणः, वैश्यकुला इति तात्पर्यम् । ते यागे यज्ञकर्मणि प्रवृत्ताः । माहनाश्च ब्राह्मणाः शस्त्रजीविनः खड्गादिप्रहरणधारणतत्प्रयोगकृतप्राणधारणाः । त्रयाणामपि स्वाचारविरुद्धमिदं वृत्तमत्यन्तमसमञ्जसमित्यत्रोदा हरणमाह- अन्धेन नष्टलोचनयुगलेन युक्तः - सहितः, युद्धकर्मण्ययं मम सहाय इति सम्प्रधार्य प्रगल्भतया नद्धः - कवचितः, तमेव विशेषयति- उत्तरम् - अधिकम्, अहर इति देश्यशब्दोऽसमर्थवाची, ततोऽत्यन्तमशक्त इत्यर्थः, स यथाऽन्धसहायो युद्धाय प्रागल्भ्यमवलम्बमानो विपर्यस्तः - शक्यादिविचारे स्वौचित्यचिन्तने निजहितविषये च नितरां विपर्यासं प्राप्तः, तथा प्रकृतेऽपि द्रष्टव्यम्। यद्येवं विपर्यासः स्यात्, युद्धौत्सुक्यं चानल्पं वर्तते, तर्हि किं कर्तव्यमित्यत्राह - आरूढा(ढो) रायरहं अडणीए युद्धमारभे । - - ४३ - १. क-ख-ज-ट-ठ-ढ-थ-ध-न-प- महणा ग-घ-च-त- माहणा। २. क-द-ढ-ध-न-पआरूढा रायहं ख-ग-च-ज-ट-ठ-थ- आरूढा रायरहं घ-त-झ- आरूढो रायरहं । ३. क-ग-ध-च-ज-ट-ठ-ढ-त-ध-न-प- मारभे ख-थ मारंभे Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - 'धम्माई' पिणिद्धति विवेता बम्हपहुणेय ।। २६- ३ ।। राजरथम् - श्रेष्ठं पवित्रं वा स्यन्दनम्, पूर्वोक्तं शीलाक्षज्ञानदर्शनसारथिकमध्यात्मरथमित्यर्थः । आरूढः - अभिविधिना कृतव्यवस्थितिः, अडणी-देश्यशब्दोऽयं मार्गपर्यायः, ततो मार्गे शिवपुराध्वनीत्यर्थः। स्वशरीरेणैव विषयसुखपिपासुना स्वैरिणा सार्धं युद्धम् - सङ्ग्रामम्, आरभेत सत्त्वप्रकर्षेणोपक्रमेत्, इमेण चेव जुज्झाहि किं ते जुज्झेण बज्झओ ? जुद्धारिहं खलु दुल्लह इत्याद्यागमवचनमनुस्मरन् । किमत्र प्रतिपक्षप्रहरणप्रतिरोधाय कवचं स्यादित्याह - धर्माः - क्षमादयः, विवेक्ता - लुप्त द्वितीयान्तत्वाद् विवेक्तारम् देहात्मभेदविज्ञानसम्पन्नम्, ब्रह्मप्रभुः विशुद्धशीलस्वामी, गुरुगुणयुक्तो गुरुरित्यर्थः, तेन नेयः - प्रज्ञापनीयतया प्रणेयः, एतेनास्य गीतार्थनिश्रिततया शुद्धचारित्रितोदिता, अत्रापि लुप्तद्वितीयान्तत्वम्, ब्रह्मप्रभुप्रणेयमिति, पिणिद्धंति - सहनशीलतादिलक्षणं कवचं परिधापयन्ति । बाह्यसङ्ग्रामप्रवृत्तौ त्वस्य ब्राह्मणत्वायोग इत्याह - ४४ - - १. ख-ज-ठ-थ-ध- भे धंमाइ च-गध-झ-त सधामाई - धम्माइ। ट-न-प- धमाई । २. धर्मपदं प्राकृत उभयलिङ्गमिति मूले 'धम्माई' पदम् । ३. द-ख-ज- बम्हपहुणेय । क- बम्हपहुणाय । ग वम्हपाहुणे ध-झ-त- बम्भपालणा च बम्भपालने ट-ट-ढ-धन-प- वंम्हपहुणेय द वम्हपालणे सम्भाव्यतेऽत्र लिपिदोषः हस्तादर्शपाठेष्वर्थस्य दुःसङ्गतेः, छन्दोभङ्गाच्चेति विचार्य बहुश्रुतैः । ४. पाइयसद्दमहण्णवो । । पृ.७१० ।। ५. ऋषिभाषिते । ।४-२५ ।। ६. आचाराङ्गे ।।१-५-३ ।। १५३-१५४ ।।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132