Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 31
________________ -ऋषिभाषितानिण माहणे धणुरहे, सत्थपाणी ण माहणे। ण माहणे मुसं बूया, चोज्जं कुज्जा ण माहणे।। ॥२६-४|| ब्राह्मणः - सव्वमप्पे जिए जिअं - इति ज्ञानविभूषितः, ब्रह्म ज्ञानमणतीति ब्राह्मण इति निरुक्तेः। धनुश्च रथश्च यस्य सङ्ग्रामोद्यतस्य स धनुरथः, न - नैव सम्भवति, उक्त ब्राह्मणत्व सद्भावेऽस्य पराक्रमणाभियोगस्यैवासम्भवात्। अत एव ब्राह्मणो माहनो वा, शस्त्रं पाणौ यस्य स शस्त्रपाणिः, न - नैव सम्भवति, उक्तं च - यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणम् - इति । तथा ब्राह्मणो मृषाम् - असत्यं, न - नैव ब्रूयात्, अन्यथा स्वरूपत्यागप्रसङ्गात्, तथा चागमः - कोहा वा जइ वा हासा, लोहा वा जइ वा भया। मुसं न वयइ जो उ, तं वयं बूम माहणं - इति । अन्यत्रापि - यम्हि सच्चं च धम्मो च, सो सुची सो च ब्राह्मणो - इति । तथा ब्राह्मणः, चौर्यम् - स्तेयम्, न - नैव, कुर्यात्, चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहु। न गिण्हाइ अदत्तं जो, तं वयं बूम माहणं - इत्युक्तेः। तथामेहुणं तु न गच्छेज्जा, णेव गेण्हे परिग्गहं। धम्मंगेहिं णिजुत्तेहिं, झाणज्झयणपरायणे।।२६-५।। - आर्षोपनिषद्___मैथुनं तु - अब्रह्म नैव गच्छेत्, तुपदेनावधारणनियम उक्तः - निरपवादत्वादब्रह्मविरतेः। ब्राह्मण इति वर्तते, तथा चोक्तम् - दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं। मणसा कायवक्केणं, तं वयं बूम माहणं - इति। अन्यत्रापि - ब्राह्मणो ब्रह्मचर्येण - इति । स परिग्रहम् - मूर्छाम्, नैव गृह्णीयात् - आत्मनि परिणमयेत्, यदाह - जहा पोमं जले जाय, नोवलिप्पइ वारिणा। एवं अलित्तं कामेहि, तं वयं बूम माहणं - इति । तदाह - अहेरिव गणाद् भीतः, सौहित्यान्नरकादिव। कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ।। सर्वकामानवलिप्तो ब्राह्मण इति तात्पर्यम्। एवं निषेधनिकुरम्बमुक्त्वा विधिमाह - धर्माङ्गः - क्षान्त्यादिभिर्धर्मपुरुषावयवैः, नियुक्तैः - चन्दनगन्धवत्परिणतः, क्षान्त्यादीनात्मनि नियोज्येत्याशयः, ध्यानम् - धर्मशुक्ललक्षणम्, अध्ययनम् - वाचनादिपञ्चविधः स्वाध्यायः, तयोः परायणः - तन्मयः, ब्राह्मणो भवतीति गम्यते, तदाह - सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यते यत्र राजेन्द्र !, स ब्राह्मण इति स्मृतः - इति । तथा - शमो दमस्तपः शौचं, सन्तोषः क्षान्तिरार्जवम्। मद्भक्तिश्च दया सत्यं, ब्रह्मप्रकृतयस्त्विमाः - इति । तथा- शिखा ज्ञानमयी यस्य, उपवीतं च तन्मयं। ब्राह्मण्यं सकलं तस्य, इति वेदानुशासनम् - इति । लक्षणान्तरमाह १. ट-न- महणे धणुरह सत्थ। ठ-ध- महणे धणुरहे सत्थ। प- महाण धणुरह सत्य । २. क- वणुवरे। ख-घ-च-ज-त-थ- धणुरहे। ग- धणुरह । ढ- वणुचरे। झधणुरहे (?हरे)। ३. क-ढ- सत्थु । ख-ग-घ-च-ज-त-थ- सत्थ। ४. ध-न-प- पणमाणे मुसं। ट-ण माणे सुसं । ५. सुत्तनिपाते ।। पृ.५८।। ६. उत्तराध्ययने ।।२५-२३।। ७. उदाने । ।१-९।। ८. सचित्तमित्यर्थः। ९. उत्तराध्ययने ।।२५-२५।। Ashopnisad_2.p65 2nd Proof १. उत्तरा.।।२५-२६ ।। २. वेदाङ्कुश उद्धृतम् । पृ.३३ ।। ३. उत्तराध्ययने ।।२५२५ ।। ४. सन्यासगीतायाम् । ७७।। ५. महाभारते ।।१८१-२१ ।। ६. भागवते ।।१११७-१६।। ७. शाट्यायनीयोपनिषदि ।।७।।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132