Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 25
________________ - ३३ ३४ नल-ऋषिभाषितानिआजीविकाभयम्, अश्लोकभयम्, मरणभयं चेति। तथाऽष्टमदस्थानत्यक्ताः - समुत्सृष्टजात्यादिगर्वपदाः, विशेषणपरनिपातः प्राकृतत्वात्, जात्यादयः - जातिलाभकुलैश्वर्यबलरूपतपःश्रुतरूपाः। तन्निमित्तगर्वविमुक्तता परमबोधावाप्तेः, यदाह - 'अहं'भावोदयाभावो, बोधस्य परमावधिः - इति । तथा नवब्रह्मचर्यगुप्ताः - नव ब्रह्मचर्यस्य गुप्तयः स्त्र्याद्यसंसक्तवसत्यादयः प्रसिद्धाः, ताभिः गुप्ताः - विहितब्रह्मरक्षणाः। तथा - समाधानं समाधिः समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधा, यदागमः - दसविहा समाही पण्णत्ता, तं जहा - पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे इरियासमिई भासासमिई एसणासमिई आयाणउच्चारपासवणखेलसिंघाणगपारिट्ठावणियासमिई - इति । एवं दशविधसमाधयः, तेषु स्थानम् - बद्धावस्थितिता, तेन सम्यक् - परिपूर्णाचारपूर्वकम्, प्रकर्षेण सदध्यवसायोत्कर्षेण युक्ताः - सहिताः - सम्प्रयुक्ताः - दशसमाधिस्थानसम्प्रयुक्ताः। त एवम्भूता बहु पापकर्म कलिकलुषं क्षपयित्वा इतः - इहलोकात्, च्युताः सन्तः सद्गतिगामिनो भवन्ति, सव्वं सुचिण्णं सफलं नराणं - इति वचनात् । तेषामेव विशेषवक्तव्यतामाह - - आर्षोपनिषद्ते णं भगवं ! सुत्तमग्गाणुसारी खीणकसाया दंतेंदिया सरीरसाधारणट्ठा जोगसंधाणताए णवकोडीपरिसुद्धं दसदोसविष्पमुक्कं उग्गमुप्पायणासुद्धं इतराइतरेहि कुलेहिं परकडं परिणिट्ठितं विगतिंगालं विगतधूमं पिंडं सेज्जं उवधिं च गवेसमाणा संगतविणयोवयारसालिणीओ कल-मधुर-रिभितभासिणीओ संगत-गतहसित-भणित-सुंदरथणजहणपडिरूवाओ इत्थियाओ पासित्ता णो मणसा वि पाउब्भावं गच्छंति ।।२५-३॥ ते - आर्यत्वाद्युक्तविशेषणविशिष्टा महात्मानः, णं - वाक्यालङ्कारे, भगवन् ! - हे प्रत्येकबुद्धत्वैश्वर्यसम्पन्न ! - अम्बडपरिव्राजकमुद्दिश्यामन्त्रणमिदम्। सूत्रम् - जिनागमः, तन्निर्दिष्टो मार्गः - मुक्तिपदवी, तदनुसारिणः - प्रगुणतया तमेवानुसृत्य गमनकर्तारः - सूत्रमार्गानुसारिणः, क्षीणकषायाः - प्रहीणस्वजन्यविकारजननशक्तयः क्रोधादयः, तत्क्षयश्चात्र तन्निग्रहप्रयुक्तोदयनिरोधेण द्रष्टव्यः, उक्तं च - कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयइ, कोहवेयणिज्ज कम्मं न बंधइ, पुनबद्धं च निज्जरेइ - इति । दान्तेद्रियाः - स्वस्वविषयानुधावनप्रवृत्तेष्विन्द्रियेषु कृतप्रत्याहाराः। ____ एषां निरवद्यां जीविका नीरागचित्ततां च व्याचष्टे - शरीरस्य सम्यक् - आवश्यकापरिहाणि यथा स्यात्तथा, धारणम् - १. उत्तराध्ययने ।।२९-६७।। १. (जैनेतरायाम्) अध्यात्मोपनिषदि ।।४१ ।। २. स्थानाङ्गे।।१०-३।। ३. उत्तराध्ययने ।।१३-१०।। Ashopnisad_2.p65 2nd Proof

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132