Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 23
________________ ऋषिभाषितानि देवानुप्रिय ! मे - मम मनसि - चित्ते, गर्भवासात् कुकर्मात्, तद्धेतुभावात्, भवति हि कुकर्मिणः पुनर्जन्मनः गर्भवास इति । विरतिः उपरतिः । कुकर्मविरतिश्चात्मरमणेन, तदेव निश्चयब्रह्मचर्यमित्यनेनात्मनो ब्रह्मचारिता ज्ञापिता । परस्यापि तदापादनाय प्रोत्साहयन्नाह कथं न त्वं ब्रह्मचारी ? भवताऽपि ब्रह्मचारिणा भाव्यमित्याशयः । - - २९ - - अत्रेतरोऽपि स्वपरिणततत्त्वज्ञानाविष्कारेणाहमपि ब्रह्मचार्येव, मज्ज्ञानस्य विरत्यावहत्वेन सफलत्वादित्याशयेनोत्तरयति, एतदेवाह - ततो योगन्धरायणोऽम्बडं परिव्राजकमेवमवादीत् भार वहतीति भारिकः, भार ठक्, ब्रह्मचर्यव्रतभारनिरवाहक इत्यर्थः, तत्सम्बोधनम् । एहि यावदेहि तावदाजानीहि - सम्यगवगच्छ । एहियावदित्यादि तद्देशकालप्रसिद्धमामन्त्रणं सम्भाव्यते । आज्ञानविषयमेवाह हारीत ! एष च कौत्सगोत्रशाखाविशेषः श्रमणशाखाविशेषो व, यत्सम्बन्धितयाऽम्बडः परिव्राजकोऽनेनाभिधानेन सम्बोध्यते। ये खलु पापकर्मभिरविप्रमुक्ताः - नित्यं कृतकुकर्मसङ्गास्ते खलु गर्भवासे कुकर्मणि रजन्ति । अतस्ते स्वयमेव प्राणानतिपतन्ति - स्वयं जीवहिंसां कुर्वन्ति, अन्यैरपि प्राणानतिपातयन्ति, अन्येऽपि जनाः प्राणानतिपातयतो वा स्वादन्ते अनुमोदयन्ति, समनुजानन्ति ममाप्यतीवाभिमतमिदमिति तान् कुकर्मणि १. प्राकृतशब्दमहार्णवे।। पृ. १४५ ।। २. रज्जीं रागे ।। गण. १ धातुपाठे - ।।८९६ ।। घ सज्जति । Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - प्रोत्साहयन्ति । तथा ते स्वयमेव मृषां भाषन्त इत्याद्युक्तवत् । तेऽविरता:- प्राणातिपातादिविरतिवर्जिताः, न प्रतिहतानि न प्रतिषेधितानि, अतीतकालकृतानि निन्दनतः, न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि - प्राणातिपातादिवृजिनक्रिया अप्रतिहतप्रत्याख्यातपापकर्माणः । यद्वा न प्रतिहतानि - सागरोपमकोटाकोट्यन्तः प्रवेशनेन सम्यक्त्वलाभतः, न च प्रत्याख्यातानि सागरोपमकोटाकोट्या सङ्ख्यातसागरोपमैर्न्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि अप्रतिहतप्रत्याख्यातपापकर्माणः, ज्ञानावरणादीनि यैस्ते ३० यैस्ते - - मनुष्या अदत्तमित्यादि प्राग्वत् । एवमेव तेऽसंयताः - इन्द्रियनिग्रहादिवर्जिताः, अविरता अप्रतिहतप्रत्याख्यातपापकर्माणः, सक्रियाः - परद्रोहादिचेष्टासहिताः, अत एवासंवृताः - अनिरुद्धकर्माश्रवद्वाराः, अत एवैकान्तदण्डाः, एकान्तिकजीवदण्डनप्रकृतयः, अत्यन्तं निस्त्रिंशा इति भावः । यत एकान्तबालाः - सज्जानलवेनापि वर्जिततयाऽज्ञाः, ते बहु - प्रभूतम्, पापं कर्म कलिकलुषम् कलहहेतुकलुषम्, समर्ज्य - निकाचनादिनात्मीकृत्य इतो भवाच्च्युताः सन्तः दुर्गतिगामिनो भवन्ति, सर्वकर्मणामदृष्टैकान्तफलत्वात्। एहि हारीत ! आजानीहि - इति प्राग्वत् । एतत्प्रतिपक्षमाह - जे खलु आरिया पावेहिं कम्मेहिं विप्यमुक्का ते खलु १. ध मीसियं । २. विपाकश्रुते ।।११।। -

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132