________________
ऋषिभाषितानि
देवानुप्रिय ! मे - मम मनसि - चित्ते, गर्भवासात् कुकर्मात्, तद्धेतुभावात्, भवति हि कुकर्मिणः पुनर्जन्मनः गर्भवास इति । विरतिः उपरतिः । कुकर्मविरतिश्चात्मरमणेन, तदेव निश्चयब्रह्मचर्यमित्यनेनात्मनो ब्रह्मचारिता ज्ञापिता । परस्यापि तदापादनाय प्रोत्साहयन्नाह कथं न त्वं ब्रह्मचारी ? भवताऽपि ब्रह्मचारिणा भाव्यमित्याशयः ।
-
-
२९
-
-
अत्रेतरोऽपि स्वपरिणततत्त्वज्ञानाविष्कारेणाहमपि ब्रह्मचार्येव, मज्ज्ञानस्य विरत्यावहत्वेन सफलत्वादित्याशयेनोत्तरयति, एतदेवाह - ततो योगन्धरायणोऽम्बडं परिव्राजकमेवमवादीत् भार वहतीति भारिकः, भार ठक्, ब्रह्मचर्यव्रतभारनिरवाहक इत्यर्थः, तत्सम्बोधनम् । एहि यावदेहि तावदाजानीहि - सम्यगवगच्छ । एहियावदित्यादि तद्देशकालप्रसिद्धमामन्त्रणं सम्भाव्यते । आज्ञानविषयमेवाह हारीत ! एष च कौत्सगोत्रशाखाविशेषः श्रमणशाखाविशेषो व, यत्सम्बन्धितयाऽम्बडः परिव्राजकोऽनेनाभिधानेन सम्बोध्यते। ये खलु पापकर्मभिरविप्रमुक्ताः - नित्यं कृतकुकर्मसङ्गास्ते खलु गर्भवासे कुकर्मणि रजन्ति ।
अतस्ते स्वयमेव प्राणानतिपतन्ति - स्वयं जीवहिंसां कुर्वन्ति, अन्यैरपि प्राणानतिपातयन्ति, अन्येऽपि जनाः प्राणानतिपातयतो वा स्वादन्ते अनुमोदयन्ति, समनुजानन्ति ममाप्यतीवाभिमतमिदमिति तान् कुकर्मणि
१. प्राकृतशब्दमहार्णवे।। पृ. १४५ ।। २. रज्जीं रागे ।। गण. १ धातुपाठे - ।।८९६ ।। घ सज्जति ।
Ashopnisad_2.p65
2nd Proof
• आर्षोपनिषद् - प्रोत्साहयन्ति । तथा ते स्वयमेव मृषां भाषन्त इत्याद्युक्तवत् । तेऽविरता:- प्राणातिपातादिविरतिवर्जिताः, न प्रतिहतानि न प्रतिषेधितानि, अतीतकालकृतानि निन्दनतः, न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि - प्राणातिपातादिवृजिनक्रिया अप्रतिहतप्रत्याख्यातपापकर्माणः ।
यद्वा न प्रतिहतानि - सागरोपमकोटाकोट्यन्तः प्रवेशनेन सम्यक्त्वलाभतः, न च प्रत्याख्यातानि सागरोपमकोटाकोट्या सङ्ख्यातसागरोपमैर्न्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि अप्रतिहतप्रत्याख्यातपापकर्माणः, ज्ञानावरणादीनि यैस्ते
३०
यैस्ते
-
-
मनुष्या अदत्तमित्यादि प्राग्वत् ।
एवमेव तेऽसंयताः - इन्द्रियनिग्रहादिवर्जिताः, अविरता अप्रतिहतप्रत्याख्यातपापकर्माणः, सक्रियाः - परद्रोहादिचेष्टासहिताः, अत एवासंवृताः - अनिरुद्धकर्माश्रवद्वाराः, अत एवैकान्तदण्डाः, एकान्तिकजीवदण्डनप्रकृतयः, अत्यन्तं निस्त्रिंशा इति भावः । यत एकान्तबालाः - सज्जानलवेनापि वर्जिततयाऽज्ञाः, ते बहु - प्रभूतम्, पापं कर्म कलिकलुषम् कलहहेतुकलुषम्, समर्ज्य - निकाचनादिनात्मीकृत्य इतो भवाच्च्युताः सन्तः दुर्गतिगामिनो भवन्ति, सर्वकर्मणामदृष्टैकान्तफलत्वात्। एहि हारीत ! आजानीहि - इति प्राग्वत् । एतत्प्रतिपक्षमाह
-
जे खलु आरिया पावेहिं कम्मेहिं विप्यमुक्का ते खलु
१. ध मीसियं । २. विपाकश्रुते ।।११।।
-