________________
- ऋषिभाषितानि
गब्भवासाहि णो सज्जंति, ते णो सयमेव पाणे अतिवार्तिति, एवं तधेव विवरीतं जाव अकिरिया संवुडा एकंतपंडिता ववगतराग-दोसा तिगुत्तिगुत्ता तिदंडोवरता णीसल्ला आयरक्खी ववगयचउक्कसाया चउविकहविवज्जिता पंचमहव्वयतिग्गुत्ता, पंचिदियसुसंवुडा छज्जीवणिकायसुड्डु– णिरता सत्तभयविष्यमुक्का अट्ठमयट्ठाणजढा णवबंभचेरगुत्ता दससमाहिट्ठाणसंपयुत्ता बहु पावकम्मं कलिकलुषं खवइत्ता इतो चुया सोग्गतिगामिणो भवति ।। २५- २ ।।
ये खलु, आराद्याता पापहेतुभ्य आर्याः, अत एव पापैः कर्मभिर्विशेषेण - त्रिकरणशुद्धया, प्रकर्षतः - योगत्रयादपि, मुक्ता: - वर्जितास्ते खलु गर्भवासे न सजन्ति । ते न स्वयमेव प्राणानतिपतन्ति, एवं तथैव पूर्वोक्तप्रकारेणैव विपरीतम् - नञ्सहितम्, यावत् अक्रियाः संवृताः, पण्डा तत्त्वानुसारिणी बुद्धिः, सा सञ्जातैषामिति पण्डिताः, ते च मिथ्यात्वलक्षणाज्ञानलेशेनाप्यकलङ्कितत्वेनैकान्तपण्डिताः । अत एवापगतरागद्वेषा: - स्थितप्रज्ञत्वेन भावमौनसम्पन्नाः, अन्वाह - न प्रहृष्येत्प्रियं प्राप्य, नोद्विजेत् प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः - इति ।
अत एव - त्रिगुप्तयः - अप्रशस्तमनोवाक्कायानां संवृतयः,
१. भगवद्गीतायाम् ।।५-२० ।।
३१
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - N ताभिर्गुप्ताः - संवृताः – त्रिगुप्तिगुप्ताः । अत एव दण्ड्यतेनारकादियातनाविषयीक्रियते जन्तुर्येन सः - दण्डः - दुष्टप्रवृत्तिः, स च मनोवचनवपुः सम्बन्धितया त्रिविधः, तत्सकाशादुपरताः निवृत्ताः - त्रिदण्डोपरताः । तथा निःशल्याः - प्राक्कृतदण्डानामालोचनादिना कृतशल्योद्धाराः, मायानिदानमिथ्यात्वशल्यविप्रमुक्ता वा आत्मरक्षिणः सुसमाहितेन्द्रियाः, इन्द्रियसमाधेरेवात्मरक्षोपायत्वात्, यदागमः अप्पा खलु सययं रक्खियव्वो, सव्विंदिएहिं सुसमाहिएहिं इति । अपगतचतुष्कषायाः - निगृहीतक्रोधाद्युदयाः, चतुर्विकथाः - राजभक्त-देश-स्त्रीकथालक्षणाः, विकथात्वं चासां संयमविरुद्धकथाभावात्, ताभिर्विवर्जिताः - स्वप्नेऽपि तद्योगविमुक्ताः, पञ्चमहाव्रतैस्त्रिगुप्ताः पञ्चमहाव्रतत्रिगुप्ताः, कथञ्चित् प्राणातिपातादिविरमण एव मनोगुप्त्याद्यन्तर्भावात् ।
३२
तथा पञ्चेन्द्रियसुसंवृताः सम्प्रत्याहृतस्पार्शनादिकरणाः, विशेषणपरनिपातः प्राकृतत्वात्, षड्जीवनिकायः - पृथिव्यादिजीवसङ्घातः, तस्य यतनायां सुष्ठु सङ्घट्टपरितापोपद्रवादिसर्वोपाधिशुद्ध्या निरताः तत्पराः । अत एव सप्तभयविप्रमुक्ताः, चारित्रपरिणत्या तल्लेशस्याप्यस्पर्शनात्, यदाह - चित्ते परिणतं यस्य चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ? - इति । भयसप्तकं चेदम् इहलोकभयम्, परलोकभयम्, आदानभयम्, अकस्माद्भयम्,
११. दशर्वकालिके । चू-२ ।। २. ज्ञानसारे ।।१७-८ ।।
-
-
-
-