Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 24
________________ - ऋषिभाषितानि गब्भवासाहि णो सज्जंति, ते णो सयमेव पाणे अतिवार्तिति, एवं तधेव विवरीतं जाव अकिरिया संवुडा एकंतपंडिता ववगतराग-दोसा तिगुत्तिगुत्ता तिदंडोवरता णीसल्ला आयरक्खी ववगयचउक्कसाया चउविकहविवज्जिता पंचमहव्वयतिग्गुत्ता, पंचिदियसुसंवुडा छज्जीवणिकायसुड्डु– णिरता सत्तभयविष्यमुक्का अट्ठमयट्ठाणजढा णवबंभचेरगुत्ता दससमाहिट्ठाणसंपयुत्ता बहु पावकम्मं कलिकलुषं खवइत्ता इतो चुया सोग्गतिगामिणो भवति ।। २५- २ ।। ये खलु, आराद्याता पापहेतुभ्य आर्याः, अत एव पापैः कर्मभिर्विशेषेण - त्रिकरणशुद्धया, प्रकर्षतः - योगत्रयादपि, मुक्ता: - वर्जितास्ते खलु गर्भवासे न सजन्ति । ते न स्वयमेव प्राणानतिपतन्ति, एवं तथैव पूर्वोक्तप्रकारेणैव विपरीतम् - नञ्सहितम्, यावत् अक्रियाः संवृताः, पण्डा तत्त्वानुसारिणी बुद्धिः, सा सञ्जातैषामिति पण्डिताः, ते च मिथ्यात्वलक्षणाज्ञानलेशेनाप्यकलङ्कितत्वेनैकान्तपण्डिताः । अत एवापगतरागद्वेषा: - स्थितप्रज्ञत्वेन भावमौनसम्पन्नाः, अन्वाह - न प्रहृष्येत्प्रियं प्राप्य, नोद्विजेत् प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः - इति । अत एव - त्रिगुप्तयः - अप्रशस्तमनोवाक्कायानां संवृतयः, १. भगवद्गीतायाम् ।।५-२० ।। ३१ Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - N ताभिर्गुप्ताः - संवृताः – त्रिगुप्तिगुप्ताः । अत एव दण्ड्यतेनारकादियातनाविषयीक्रियते जन्तुर्येन सः - दण्डः - दुष्टप्रवृत्तिः, स च मनोवचनवपुः सम्बन्धितया त्रिविधः, तत्सकाशादुपरताः निवृत्ताः - त्रिदण्डोपरताः । तथा निःशल्याः - प्राक्कृतदण्डानामालोचनादिना कृतशल्योद्धाराः, मायानिदानमिथ्यात्वशल्यविप्रमुक्ता वा आत्मरक्षिणः सुसमाहितेन्द्रियाः, इन्द्रियसमाधेरेवात्मरक्षोपायत्वात्, यदागमः अप्पा खलु सययं रक्खियव्वो, सव्विंदिएहिं सुसमाहिएहिं इति । अपगतचतुष्कषायाः - निगृहीतक्रोधाद्युदयाः, चतुर्विकथाः - राजभक्त-देश-स्त्रीकथालक्षणाः, विकथात्वं चासां संयमविरुद्धकथाभावात्, ताभिर्विवर्जिताः - स्वप्नेऽपि तद्योगविमुक्ताः, पञ्चमहाव्रतैस्त्रिगुप्ताः पञ्चमहाव्रतत्रिगुप्ताः, कथञ्चित् प्राणातिपातादिविरमण एव मनोगुप्त्याद्यन्तर्भावात् । ३२ तथा पञ्चेन्द्रियसुसंवृताः सम्प्रत्याहृतस्पार्शनादिकरणाः, विशेषणपरनिपातः प्राकृतत्वात्, षड्जीवनिकायः - पृथिव्यादिजीवसङ्घातः, तस्य यतनायां सुष्ठु सङ्घट्टपरितापोपद्रवादिसर्वोपाधिशुद्ध्या निरताः तत्पराः । अत एव सप्तभयविप्रमुक्ताः, चारित्रपरिणत्या तल्लेशस्याप्यस्पर्शनात्, यदाह - चित्ते परिणतं यस्य चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ? - इति । भयसप्तकं चेदम् इहलोकभयम्, परलोकभयम्, आदानभयम्, अकस्माद्भयम्, ११. दशर्वकालिके । चू-२ ।। २. ज्ञानसारे ।।१७-८ ।। - - - -

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132