Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नर-ऋषिभाषितानिनिर्वाहः, तदर्थम् - तत्प्रयोजनेन - शरीरसंधारणार्थम्। एतदेव प्रकारान्तरेणाह - योगः - मोक्षयोजनव्यापारः, ज्ञानाधाराधनेत्यर्थः। तस्य सन्धानम् - आत्मन्यनुवेधः, तस्य भावः योगसन्धानता, तस्यै - योगसन्धानतायै। नव कोटयः - शुद्धिप्रकाराः, ते चैवम् - ण हणइ ण हणावेइ हणतं णाणुजाणइ, ण पतति, ण पतावेति पतंतं णाणुजाणति, न किणति ण किणावेति किणंतं णाणुजाणति - इति । तैः सर्वैरपि शुद्धम् - नवकोटिपरिशुद्धम्, पिण्डादि गवेषयमाणा इत्यग्रे योगः। दश शङ्कितादय एषणासम्बन्धिनो दोषाः, तैर्विप्रमुक्तम् - वर्जितम्, दशदोषविप्रमुक्तम्, उद्गमः - आधाकर्मादिः षोडशविधः, उत्पादना च धात्रीदूत्यादिका षोडशविधैव, एतदन्तर्गतदोषमुक्ततया शुद्धम् - उद्गमोत्पादनाशुद्धम्, इतरेतरैः कुलैः - अन्यान्यैर्गृहैः, एतेनैकपिण्डस्य नियतपिण्डस्य च प्रतिषेध उक्तः, सामुदानिक पिण्डादि गवेषयन्त इति तात्पर्यम्। ___परः - गृही, तेनात्मार्थं कृतम् - निष्पादनायारब्धम्, परार्थमेव परिनिष्ठितम् - सिद्धिं प्राप्तम्, अन्तरा श्रमणार्थाधिकप्रक्षेपादिना मिश्रजातादिदोषैरदुष्टमिति हृदयम्। यद्वा द्विचत्वारिंशदोषनिकुरम्बसम्परिहारेण पूर्णशुद्धिं प्राप्तम् - परिनिष्ठितम्।
साम्प्रतं ग्रासैषणादोषविरहमाख्याति- विगतेङ्गालम् - रागोदयमन्तरेण परिभुक्तम्, विगतधूमम् - द्वेषोदयं विनैवोपभुक्तम्, किमित्याह- पिण्डः - संयमयात्रोपयोगि पृथिव्यादिद्रव्यम्, शय्या
आर्षोपनिषद्-50 - वसतिः, उपधिः - वस्त्रपात्रादि, चकारेणान्यदपि तथाविधमागमानुज्ञातं वस्तु समुच्चितं द्रष्टव्यम्। एतान् गवेषयन्तः सङ्गतः - विचक्षणवनिताऽनुरूपः, विनयोपचारः - अभ्युत्थानादियोगः - सङ्गतविनयोपचारः, तेन शालन्त इति सङ्गतविनयोपचारशालिन्यः, कलम् - सुन्दरम्, मधुरम् - श्रुतिमात्रजनितालादम्, रिभितम् स्वरघोलनासंवलितम्, ईदृग् वचनं भाषन्त इति कलमधुररिभितभाषिण्यः, सम्यक् - मनोज्ञतया गम्यत इति सङ्गतम्, सङ्गतं गतम् - हंसादिसदृशा गतिर्यासां ताः - सङ्गतगताः, एवं सङ्गतहसिताः सङ्गतभणिताश्च। तथा नन्दयन्ति कामिनः पुरुषानिति सुन्दराणि, सुन्दरैः स्तनजघनैः प्रतिरूपाः - कमनीयाः सुन्दरस्तनजघनप्रतिरूपाः, ततः पूर्वेण कर्मधारयः। यद्वा सङ्गतगतहसितभणितैः सुन्दरस्तनजघनैश्च प्रतिरूपा इति विग्रहः कार्यः।।
एवम्भूताः स्त्रियो दृष्ट्वा - चक्षुर्विषयीभूततयाऽशक्यादर्शनत्वेन क्षणार्धमवलोक्य, न मनसापि - चित्तेनापि, आस्तां कायेनेत्यपिशब्दार्थः, प्रादुर्भावम् - वेदोदयम्, गच्छन्ति। तदवलोकनं प्रायो भिक्षाचर्यायां सम्भवतीतीत्थमुपन्यासः।
वेदोदयस्त्वा नवमगुणस्थानकं सम्भवतीत्युक्तग्रन्थविषयो वीतराग एव कश्चित् स्यादित्याशङ्कायामुत्तरयति -
से कधमेतं विगतरागता ? सरागस्स वि य णं
अविक्खहितमोहस्स तत्थ तत्थ इतराइतरेस् कुलेस १. क-द-ब-ध-न-प- अविक्खहित । ख-ज-ठ-ध- अविक्खहिता। ग-च- अविक्खहत । घ-झ-छ-त- अविक्खहत । ट- अविक्खहित्ता।
Ashopnisad_2.p65
2nd Proof
१. स्थानाङ्गे । ।९-३।। ६८१ ।।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132