________________
नल-ऋषिभाषितानिजघन्यं जनम्, नमस्कृतं वा - परैः प्रणमितम्, देहिनम् - जीवम्, जाग्रन्तम् - सावधानम्, प्रमत्तं वा - मद्यादिप्रमादवन्तम्। सर्वस्थान - लुप्तद्वितीयान्तत्वात् सर्वस्थानानि, सर्वावस्थाविशेषावस्थितजीवा इत्यभिप्रायः। तान्यभिलुप्यति - विनाशयति, अनित्यता कालो वेति गम्यते। एतदेव स्पष्टयति
"एवमेतं करिस्सामि, ततो एवं भविस्सति"। संकप्पो देहिणं जो य, ण तं कालो पडिच्छती।।
॥२४-१६।। एवम् - मच्चिन्तितप्रकारेण, एतत् - मदभीष्टं द्रव्यार्जनादि, करिष्यामि। ततः - द्रविणार्जनादेः, एवम् - हादिविभवप्राप्तिक्रमेण चिरप्रार्थितं सुखं भविष्यति। इत्यादि देहिनां यश्च सङ्कल्पः - अद्याप्यप्रयुक्तो मानसगतो विकल्पः, तं कालः - कृतान्तः, न - नैव, प्रतीच्छति - तत्सङ्कल्पसिद्धिं यावत्प्रतीक्षा करोति, उक्तं च - न हि प्रतीक्षते कालः, कृतं वाऽथ न वा कृतम् - इति। इतश्चास्या दुर्निवारता, पृष्ठलग्नत्वादित्याह -
जा जता सहता जे (जा) वा, सव्वत्थेवाणुगामिणी। छाय व्व देहिणो गूढा, सव्वमण्णेतिऽणिच्चता।।
॥२४-१७॥ या - अनित्यता, यता - अवियोगाय कृतप्रयत्ला, किमुक्तं भवति - या सहता, लुप्तचतुर्थ्यन्ततया सहतायै - सान्निध्याय १. मुद्रितेषु - जा जया सहजा जा बा। हस्तादर्शषु - जा जता सहता जे वा। गन-ण- जो जता सहता जे वा। प- जो जता सहता चेवा। ध - जो जता सहता वेवा। ड - जा जया सहजा जे वा।
आर्षोपनिषद्प्रयता, वा - प्रस्तुतार्थस्यैव प्रकारान्तरेणाभिधानद्योतकः। अत एव सर्वत्रैव ग्रामारण्यपर्वतपातालादौ, अनुगामिनी - कृतान्वया। अत एव देहिनश्छायेवानित्यता, सर्वम् - निःशेषचराचरवस्तुसमूहम्, अन्वेति - पृष्ठलग्नेव सहैव गच्छति। ननु नैषा कदापि लक्ष्यत इति चेत् ? सत्यम्, यतः गूढा - अभावितानित्यभावनानां लीनाऽलक्ष्येति यावत्, न चैतावता तदभावः, इतरेषां प्रत्यक्षत्वादित्याह
कम्मभावेऽणुवतंती, दीसंती य तधा तधा। देहिणं पकती चेव, लीणा वत्तेयऽनिच्चता।।२४-१८।।
कर्मभावे - ज्ञानावरणादिकर्मणो विपाकसद्भावे, अनुवर्तमाना - तद्विपाकोदयानन्तरमेव स्वानुभावप्रदर्शनेन ज्ञापितनिजविद्यमानता, च: - पूर्ववृत्तसमर्थनव्यञ्जकः, तथा तथाश्रेष्ठिरङ्कादिव्यत्ययप्रकारेण दृश्यत एवानित्यता।
न चैतादृशव्यत्ययकाल एव तदागमनम्, कथञ्चिज्जीवस्वभावभूतत्वात्तस्या इत्याह- देहिनाम् - जीवानाम्, उपलक्षणमेतदितरेषाम्, प्रकृतिरेव - कथञ्चित्स्वलक्षणमेव, लीना - मोहावृतप्रेक्षाचक्षुषाऽलक्ष्यमानाऽनित्यता वर्तेत - प्राकृतत्वाद्वर्तते - अशेषवस्तुषु विद्यमानैवास्ति। अनित्यताबीजमपि कर्मेत्याह
जं कडं देहिणं जेणं, णाणावण्णं सुहासुहं। णाणावत्थंतरोवेतं, सब्वमण्णेवि (ति) तं तहा।।
॥२४-१९॥ येन - जीवेन, देहिनाम् - षट्कायजीवानां सम्बन्धि, यत्, १. मुद्रितेषु- ण्णेति, हस्तादर्शषु - प्रणेवि ।
Ashopnisad_2.p65
2nd Proof