________________
नल-ऋषिभाषितानिक्षत्रियादिस्तेषु प्रहरतीत्यनेनास्याः सुनिघृणत्वमावेदितम्। काऽसावित्याह- जगति - त्रैलोक्येऽपि एका - अनन्यचरिता, अनित्यता - नश्वरता। तदधीनमाहात्म्याख्यानेनैव तन्माहात्म्यमाह
देविंदा दाणविंदा य, णरिंदा जे य विस्सुता। पुण्णकम्मोदयब्भूयं, पीतिं पावंति पीवरं।।२४-११।।
देवेन्द्रा दानवेन्द्राश्च नरेन्द्रा ये च विश्रुताः, पुण्यकर्मोदयभूताम् - सुभगादिशुभकर्मविपाकेनोत्पन्नाम्, पीवराम् - रसातिशयोदयानुभावेनोपचिताम्, प्रीतिम् - चित्तप्रसन्नताम्, प्राप्नुवन्ति - अधिगच्छन्ति। किञ्च
आऊ धणं बलं रूवं, सोभग्गं सरलत्तणं। णिरामयं च कंतं च, दिस्सते विविहं जगे।।२४-१२।।
आयुः - जीवितम्, धनम् - द्रव्यम्, बलं-स्थाम, रूपम् - विशिष्टवर्णादिलक्षणम्, सौभाग्यम् - पूर्वोक्तम्, सरलत्वम् - प्रगुणत्वम्, निरामयम् - नीरोगित्वम्, कान्तम् - कमनीयत्वम्, भावप्रधानत्वान्निर्देशस्य, चौ - समुच्चये। सर्वमप्येतद् विविधम् - अनेकप्रकारम्, जगति दृश्यते - प्रत्यक्षमुपलभ्यते। तदेवम्
सदेवोरग - गंधव्वे, सतिरिक्खे समाणुसे। णिब्भया णिव्विसेसा य, जगे वत्तेयऽणिच्चता।।
॥२४-१३॥ सदेवोरगगान्धर्वे - वैमानिक - नागकुमारगन्धर्वाख्ययक्षविशेषैः सहिते उपलक्षणमेतच्छेषाशेषदेवानाम्। सतिर्यञ्चे तैर्यग्योनिजसहिते, समानुषे - मनुष्यसहिते। इत्थं जगति - विश्वेऽपि
१४
- आर्षोपनिषद्विश्वे, निर्भया - स्वपराभूत्यादिभयलेशवर्जिता, निर्विशेषा च - सर्वत्र समवर्तिनी, अनित्यता, वर्तेत - प्राकृतत्वाद्वर्तते - विद्यत इत्यर्थः। स्यादेतत्, चक्रवर्त्यप्यप्रतिहतशासनः प्राभृताद्यावर्जितोऽनुकूलीभवति, तथाऽत्रापि भविष्यतीति चेत् ? न, कथमित्याह
दाण-माणोवयारेहिं, साम-भेयक्कियाहि य। ण सक्का सण्णिवारेउं, तेलोक्केणाविऽणिच्चता।।
॥२४-१४।। दानम् - प्राभृतादेरर्पणम्, मानः - सन्माननादिः, उपचारः - अभ्युत्थानादिविनयः, तैः, चः - समुच्चये, स्यति वैरमनेनेति साम - सान्त्वनोपायः, तच्च पञ्चविधम्, यथोक्तम् - परस्परोपकाराणां, दर्शनं गुणकीर्तनम्। सम्बन्धस्य समाख्यानमायत्याः सम्प्रकाशनम्।। वाचा पेशलया साधु, तवाहमिति चार्पणम्। इति सामविधानज्ञैः, साम पञ्चविधं स्मृतम् - इति। तथा भेदः - शत्रोरमात्यादीनामुपायेन परतो विश्लिष्याऽऽत्मसात्करणम्। स त्रिविधः, यदाह - स्नेहरागापनयनं, संहर्षोत्पादनं तथा। सन्तर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः - इति । तयोः क्रियाभिः प्रयोगैः, त्रैलोक्येणाप्यनित्यता सन्निवारयितुं न शक्या, दानाद्यविषयत्वात्तस्यास्तदसाध्यत्वात् । ततश्च -
उच्चं वा जति वा णीयं, देहिणं वा णमस्सितं। जागरंतं पमत्तं वा, सव्वत्थाणाऽभिलुप्पती।।२४-१५।।
उच्चं वा - राजादिं प्रकृष्टं जनम्, यदि वा नीचम् - रोरादिं १,२. कामन्दकीयनीतिसारे । ।१७/४-५,१७/८ ।।
Ashopnisad 2.p65
2nd Proof