________________
ऋषिभाषितानि
११
क्षयवृद्धिकदर्थितम्, यद्वा - एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम् - इत्यशरणताविधुरम् । चः - समुच्चये ।
सागरम् - समुद्रम्, नियतवृद्धिहानिकम् । तथा सरितम् नदीम्, प्रतिक्षणमपरापरस्रोतः परिवर्तिताम् । इन्द्रध्वजम् - लोकप्रसिद्ध इन्द्रमहस्यारोप्यमाणो लघुपताकासहस्रोपशोभितः कौशिककेतनः, स प्राक् पूज्यमानोऽप्युत्सवानन्तरं कचवरोत्करवदवज्ञायते । चः समुच्चये, सान्ध्यं मेघमिव - प्राक् सुवर्णवर्णाद्यलङ्कृततयाऽतीव मनोरमम्, ततस्तमालश्यामं शतशो विशीर्णतया नामशेषं वा, सर्वमप्येतदनित्यमिति चिन्तयेत् - शान्तात्मना भावयेत् । एतदपि चिन्तयेत् -
-
जोवणं रूवसंपत्ति, सोभग्गं धणसंपदं ।
जीवितं वा वि जीवाणं, जलबुब्बुयसन्निभं । । २४-८।। यौवनम् - तारुण्यम्, रूपसम्पत्तिम् - लावण्यादिनातिमनोरमवर्णादिप्राप्तिम्, सौभाग्यम् सत्काराद्यवाप्तिप्रयोजकं दैवशोभनत्वम्, धनसम्पदम् - द्रविणविभवम्, जीवानां जीवितं वाऽपि चिन्तयेत्, यदेतत् सर्वमपि जलबुद्बुदसन्निभम्, तद्वत् क्षणभङ्गुरम्। अन्वाह च संझरागजलबुब्बु ओवमे, जीविए य जलबिंदुचंचले । जुव्वणे य नइवेगसन्निभे, पावजीव ! किमियं न बुझसे ?' ।। यौवनं नगनदीस्यदोपमं शारदाम्बुदविलासि जीवितम् । स्वप्नलब्धधनविभ्रमं धनं स्थावरं किमपि नास्ति तत्त्वतः - इति । जीवितस्य भङ्गुरतामेव समर्थयति -
१. शान्तसुधारसे । । २७ ।। २ चैराग्यशतके । । ४५ ।। ३ श्रावकाचारे ।।१४-१ ।।
-
Ashopnisad_2.p65 2nd Proof
१२
देविंदा समहिड्डीया, दाणविंदा य विस्सुता ।
रिंदा जे य विक्कंता, संखयं विवसा गता । । २४-९ ।। देवेन्द्राः - विबुधनाथाः, तानेव विशेषयति- समहर्द्धिकाः अचिन्त्यैश्वर्यादियुक्तैः सामानिकादिसुरैः सहिताः, दानवेन्द्राश्च असुरेश्वराः, तानेव विशेषयति - विश्रुताः मेरुं दण्डं जम्बूद्वीपं च छत्रं कर्तुं सामर्थ्यमेषामित्यादिना प्रसिद्धाः, ये च नरेन्द्राः - चक्रवर्त्यादयो नृपाः, तानेव विशेषयति- विक्रान्ताः विपक्षविलयकारिविक्रमविभूषिताः । तेऽपि विवशा - कृतान्तप्रकृतान्ततया पराधीनाः सङ्क्ष ऐश्वर्यादिविशिष्टतयात्यन्तमुच्छेदम्, गताः - प्राप्ताः । उक्तं च- ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे ये च स्वर्गभुजो भुजोर्जिततरा मेदुर्मुदा मेदुराः। तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठादत्राणाः शरणाय हा दशदिशः प्रैक्षन्त दीनाननाः - इति' । कथमेतदेवमित्याह - सव्वत्थ णिरणुक्कोसा, णिव्विसेसप्पहारिणो (णी ) । सुत्तमत्त- पमत्ताणं, एका जगतिऽणिच्चता । । ।। २४-१०।। सर्वत्र राजरङ्कादौ बालवृद्धादौ वा, निरनुक्रोशा करुणालेशवर्जिता, अत एव सुप्तः - निद्राधीनः, मत्तः - हर्षादिगर्वितः, प्रमत्तः - मद्यपानादिना प्रमादमापन्नः, तेषां निर्विशेषतया - सावधानात्मसमतया, प्रहारिणी - प्रहारकर्त्री, सुप्तादयो विशेषेणानुकम्या भवन्ति, न हि निस्त्रिंशोऽपि
१. शान्तसुधारसे ।। २-१ ।।
-
आर्षोपनिषद् -
-