________________
नल-ऋषिभाषितानिनानावर्णम् - विचित्रप्रकारम्, शुभाशुभम् - प्रशस्ताप्रशस्तम्, नानावस्थान्तरोपेतम् - विविधपर्यायसंवलितम्, कृतम् - चेष्टितम्, तत्सर्वम् - कृत्स्नम्, तथा - स्वप्रत्ययिककर्मबन्धतद्विपाकक्रमेण, तम् - विचेष्टाकारिजीवम्, अन्वेति - अनेकगुणीभूयानुसङ्क्रमति। यदाह - वहमारण- अब्भक्खाणदाणपरधणविलोवणाइणं। सव्वजहन्नो उदओ, दसगुणिओ इक्कसि कयाणं।। तिव्वयरे उ पओसे, सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा, हुज्ज विवागो बहुतरो वा - इति । कर्मनिवृत्तिमेव स्फुटीकुरुते -
कंती जाई वयोवत्था, जुज्जंते जेण कम्मुणा। णिव्वत्ती तारिसी तीसे, वायाए व पडिंसुका।।२४-२०।।
कान्तिः -विभवादिकृता विभूषा, जातिः- एकेन्द्रियादित्वेन जन्म, वयः - बालयुवादि, अवस्था - रोगिनीरुक्त्वादिरूपा, तथा येन कर्मणा - मनोवाक्कायचेष्टया जीवा युज्यन्ते - तत्तत्कर्मपरिणता भवन्ति, तादृशी - तदनुरूपा, तस्याः - कर्मप्रवृत्तेः, निर्वृत्तिः - विशिष्टस्थितिरसप्रदेश - संवलितत्वेन निष्पत्तिर्भवति।
अत्रार्थ उदाहरणमाह- यथा वाचोऽनुरूपैव प्रतिश्रुत् - प्रतिध्वनिर्भवतीति।
ननु मनःप्रभृतीनामेव शुभाशुभानां तत्तत्कर्मबन्धहेतुकतया
१८
- आर्षोपनिषद्कान्त्यादेरन्यथासिद्धिरिति चेत् ? सत्यम्, तथाऽपि कान्त्यादिकृतचित्तपरिणामप्रभृतिवैचित्र्यदर्शनात्कथञ्चित्तेषामपि हेतुता द्रष्टव्येत्यदोषः, ततश्च
नाहं कडोदयुब्भूया, नाणागोयविकप्पिया। भंगोदयऽणुवत्तंते, संसारे सव्वदेहिणं ।।२४-२१।।
कृतम् - अनन्तरोक्तरीत्या निर्वर्तितं कर्म, तस्योदयेनोद्भूताः - उत्पन्नाः, नानागोत्रविकल्पिताः - विचित्रनामजातिप्रकारैर्व्यवहृताः, भङ्गाः - अज्ञानादिपर्यायाणां प्रकारः, तेषामुदयाः प्रादुर्भावाः, नाथम् - स्वकर्तृकर्मकर्तृत्वेन स्वस्वामिनम्, अनुवर्तन्ते - स्वानुरूपफलप्रदा भवन्ति।
किं यत्किञ्चिज्जीवं प्रतीयं स्थितिरित्यत्राह - संसारे सर्वदेहिनां भङ्गोदयास्तानेवानुवर्तन्ते। इत्थं च सततमनुवर्तमानभङ्गोदयरङ्गेऽनित्यतानर्तकयाः कर्म एव सूत्रधार इति दर्शयति
कम्म(?कंद)मूला जहा वल्ली, वल्लीमूलं जहा फलं। मोहमूलं तहा कम्म, कम्ममूला अणिच्चया।।२४-२२।।
यथा कर्म - रोपणसिञ्चनादिक्रिया, तदेव मूलम् - आदिहेतुर्यस्याः सा - कर्ममूला, सम्भाव्यतेऽत्र कंदमूला - इति पाठः, सुगमश्च। वल्ली - लता। यथा च वल्लीमूलं फलम्। तथा कर्म मोहमूलम्, कर्ममूला चानित्यता। तत्तच्छुभाशुभफलावहतया कर्मण एव परिवर्त्तमूलत्वात्, एतदेवाचष्टे१. प-क-ख-ज-ट-ठ-ढ-थ-ध-न- नाहं । ग-घ-छ-झ-त- ताई। च- ता है। ण- नाह। २. भङ्गोदयानां कर्तृ कर्म, कर्मकर्ता जीवः, अतः - दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे - इति न्यायाद् भङ्गोदयानां नाथत्वेन जीवः प्रतिपत्तव्यः।
१. उपदेशमालायाम् ।।१७७-१७८ ।। २. क-ढ-ण- जाई व । द-प-ख-ज-ट-ठ-थ-ध-नजा व। ग-जाव व०। घ-झ-त- जा वा व०। च-जे वा व०।
Ashopnisad 2.p65
2nd Proof