________________
नर-ऋषिभाषितानि - बझंते (बज्झते) बुज्झए चेव, हेउजुत्तं सुभासुभं। कंदसंदाणसंबद्धं, वल्लीणं व फलाफलं।।२४-२३।।
कर्म बध्यते - क्षीरनीरवज्जीवनात्मीक्रियते, बुध्यते आगमानुमानादिना ज्ञायते, चैव - अवधारणे, कीदृशं कर्मेत्याह- हेतुयुक्तम्, मिथ्यात्वादिस्वकारणसहितम्, नाकारणं भवेत्कार्यमिति न्यायात्। तमेव विशेषयति - शुभाशुभम् - प्रशस्ताप्रशस्तम्। अत्रार्थ उदाहरणमाह- वल्लीनामिव - वल्लरीणामिव, कन्दसन्दानसम्बद्धम्- कन्देन सह सन्दानद्वारेण सम्बद्धम्, मूलेन सम्यग् दीयमानेन रसादिदानेनोपचिततया कार्यकारणभावलक्षणसम्बन्धेन सम्बद्धमिति - तात्पर्यम्, फलम् - प्रशस्तव्युष्टिः, अफलम् - दुष्टव्युष्टिः, कुत्सितं फलमिति यावत्। स्वस्वकन्दाद्यनुरूपमेव वल्लीनां शोभनमितरं वा फलं जायत इति।
तस्मात् कर्महेतुविच्छेदे यत्नो विधेयः। कृतेऽपि तद्विच्छेदे प्राक्कृतकक्षपणं कर्तव्यतयाऽवशिष्यत इत्याहछिण्णादाणं सयं कम्मं, भुज्जए तं न वज्जए। छिन्नमूलं व वल्लीणं, पुव्बुप्पण्णं फलाफलं।।२४-२४।।
छिन्नादानम् - मिथ्यात्वादिवर्जनेन निरुद्धाश्रवविवरम्, कर्म स्वयं भुज्यत - तपसा क्षपयेत्, तन्न वर्जयेत् - नैव तदुपेक्षा विदध्यात्, यथा वल्लीनां छिन्नमूलमपि पूर्वोत्पन्नम् - प्राग्जनितम्, फलाफलम्, तस्य भोगादि कर्तव्यतयाऽवशिष्यत
२०
आर्षोपनिषद्इति। न चातो भेतव्यम्, छिन्नमूलत्वादेवेत्याह -
छिन्नमूला जहा वल्ली, सुक्कमूलो जहा दुमो। नट्ठमोहं तहा कम्म, सिण्णं वा हयणायक।।२४-२५।।
यथा छिन्नमूला वल्ली, यथा वा शुष्कमूलो द्रुमः, तथैव नष्टमोहं कर्म, सर्वेषामेषां प्रकृताप्रकृतानां छिन्नादानतया विनाश एव, उदाहरणान्तरमाह - हतनायकं सैन्यमिव - व्यापादितसेनानीः सेनेव, अत्रैव निदर्शनान्तराण्याह
अपरोही जहा बीयं, धूमहीणो जहाऽनलो। छिन्नमूलं तहा कम्म, नट्ठसण्णो व देसओ।।२४-२६।।
यथा, न विद्यते प्ररोहः - अङ्कुरो यस्य तत्- अप्ररोहि, पृथिव्यादिसहकारिसमवधानविकलत्वेन स्वरूपयोग्यताविरहाद्वा, बीजम्। यथा वा धूमहीनः - धूमनिबन्धनेन्धनशून्यः, अनलः - ज्वलनः, तथा छिन्नमूलम् - निहतमोहनीयाख्यमूलम्, कर्म। उपमान्तरमाह- नष्टसञः - मद्यादिप्रतिहतप्रशस्तप्रेक्षः, देशक इव मार्गाद्युपदेष्टेव। स यथा सर्वेषामवज्ञास्पदत्वेन देशकत्वविशिष्टपर्यायेणावश्यं विनश्यति एवं प्रस्तुतेऽपि द्रष्टव्यम्। उपेक्षितमूलस्य जीवस्य तु कर्मपरवशतैवेत्याह -
जुज्जए कम्मुणा जेणं, वेसं धारेइ तारिसं। वित्त-कतिसमत्थो वा, रंगमझे जहा नडो।।२४-२७।।
येन कर्मणा विपक्वेन गतिजात्यादिनामकर्मादिना युज्यते -
अभिभावितो भवति, तादृशम् - तत्तत्कर्मानुरूपम्, विशन्ति Ashopnisad_2.p65
___आत्मानोऽत्रेति - वेशम् - नारकादिशरीरम्, तद्धारयति।
सानोति _ण - कानिपारी तनारयति।
१. क-ज-ठ-तु-ण- बझते। द-ख-थ-ध-न-प- वझते। ग-ट- बुज्झत। घ-त- बुज्झए। च- बुझंते । झ- बज्झते । द(२)- बुझंत ।
2nd Proof