________________
-ऋषिभाषितानि
- २१ ___ अत्र निदर्शनमाह - यथा रङ्गमध्ये - नाटकभूमौ, वित्तम् - तत्तन्नृपादिवेशप्रायोग्यसामग्री, कान्तिः - तत्प्रायोग्या वर्णादिविभूषा । तत्सम्पादने समर्थः - प्रत्यलः, नटः - शैलूषः । यथा सामग्र्यादिविरहे नटो वेशं न धारयति, तथा कर्माभावे नारकादिगतिरपि नैव भवतीति भावः। तद्भावे तु -
संसारसंतई चित्ता, देहिणं विविहोदया। सव्वोदुया लया चेव, सव्वपुष्फफलोदया।।२४-२८।।
देहिनाम् - शरीरिणाम्, विविधाः - नारकाद्यनेकप्रकाराः, उदयाः - तत्तत्पर्यायप्रादुर्भावा यस्यां सा विविधोदया, अत एव चित्रा - अनन्तानन्तावस्थाविशेषकर्बुरा, संसारः - सन्ततमेव संसरणम्, तस्य सन्ततिः - परम्परा, भवति।
यथा, सर्वे ऋतवः पुष्पफलाद्यावहा यस्याः सा - सर्वर्तुका। ऋतुकालो हि कश्चित् स्वकीयो विशिष्य पुष्पाद्युद्गमहेतुर्भवति, अस्यास्तु सर्वे अपि ऋतवः पुष्पाद्युद्गमकाल एवेति हृदयम्। लता - व्रततिः, चैव - उत्प्रेक्षायाम्, सर्वपुष्पफलोदया - स्वजन्यनिःशेषकुसुमव्युष्टिप्रादुर्भावा भवति। अविकलसामग्रीसद्भावेऽवश्यं कार्योत्पत्तिभावात्। तस्मात् कर्मबन्धत एव भेतव्यम्, तत एव विनिघातप्रसूतेः, एतत्तत्त्वानभिज्ञानां तु यो विपर्यासो विडम्बनाश्च भवन्ति तदाह
पावं परस्स कुव्वंतो, हसए मोहमोहिओ। मच्छो गलं गसंतो वा, विणिघायं न पस्सई।।२४-२९।।
आर्षोपनिषद् - परोवघायतल्लिच्छो, दप्पमोहबलुडुरो। सीहो जरो दुपाणे वा, गुणदोसं न विदई।।२४-३०।। पच्चुप्पण्णरसे गिद्धो, मोहमल्लपणोल्लिओ। दित्तं पावइ उक्कंठं, वारिमझे व वारणो।।२४-३१।। सवसो पावं पुरा किच्चा, दुक्खं वेएइ दुम्मई। आसत्तकंठपासो वा, मुक्कधाहो दुहट्ठिओ।।२४-३२।। प्राग्वत्। एवं च - चंचलं सुहमादाय, सत्ता मोहम्मि माणवा। आइच्चरस्सितत्ता वा, मच्छा झिज्जंतपाणियं(या)।।
॥२४-३३।। मानवाः - मनुष्याः, उपलक्षणाच्छेषाशेषजीवाश्च, चञ्चलम् - कुशाग्रस्थजलबिन्दुवदतीव तरलम्, सुखम् - यत्किञ्चित्तुच्छमाभिमानिक सौख्यम्, तदादाय - क्लेशकोटिभिः प्राप्य, मोहे - गृद्ध्यतिशयेऽज्ञाने वा, सक्ताः - निमग्ना वर्तन्ते। अत्रोपमामाह- आदित्यरश्मितप्ताः - सूर्यकिरणोष्णीभूताः, क्षीयमाणमाधारभूतं पानीयम् - जलं येषाम् - क्षीयमाणपानीयाः, तत्क्षयश्च चण्डांश्वंशुभिर्बाष्पीभवनेन बोध्यः, मत्सा इव - झषा इव। वेलावृद्धौ हि सागरतटं जलेनाव्रियते, तदा तुच्छभोज्याद्याशंसया मत्स्या अपि तत्रागच्छन्ति, तेषु ये तदासक्त्या न निवर्तन्त ते गर्तादौ क्षीयमाणपानीये मरणान्ता यातना विषहन्ते, १. नवरं मोहावलेपेनावलिप्तः स्तब्ध इत्यर्थः। २. धाहा- उच्च रुदनम्। ३. ऋषिभाषिते ।। १५/१५, १७, १६, १८।।
१. आभा राढा विभूषा श्रीरभिख्या कान्तिविभ्रमः - अभिधानचिन्तामणी ।
Ashopnisad_2.p65
2nd Proof