________________
70 ऋषिभाषितानि
तथा मोहसक्ता मानवा अपीति । किञ्च -
अधुवं संसिया रज्जं, अवसा पावंति संखयं । छिज्जं व तरुमारूढा, फलत्थी व जहा नरा ।। २४-३४ । । अध्रुवम् - अस्थिरम्, राज्यम् उपलक्षणादन्यदप्यासक्तिविषयम्, संश्रिताः - त्रैलोक्यसारमिदमिति मत्या शरणं प्रपन्नाः, अवशाः - कर्मायत्ततया परतन्त्राः, सङ्क्षयम् - राजादिपर्यायस्य सुतरामुच्छेदम्, प्राप्नुवन्ति पुण्यक्षयेऽधिगच्छन्ति, यथोक्तम् धी धी धी संसारं, देवो मरिऊण जं तिरी होइ। मरिऊण रायराया, परिपच्चइ निरयजालाहिं - इति' ।
-
-
यथा फलार्थिन: - आम्रादिफललिप्सवः, नराः पुरुषाः, छेद्यम् अनन्तरमेव स्कन्धादेव कर्त्तनीयम् तरुम् सहकारादिवृक्षम्, आरूढाः - तं प्रति विहितारोहणाः । अत्र पाक्षिका फललब्धिरसंशयं तु पातपीडेत्यशेषासक्तिविषयेष्वप्युपनेतव्यम् । इदमपरं विपर्यस्ततरमित्याह -
मोहोदये सयं जंतू, मोहं तं चेव वेसई ।
छिण्णकण्णो जहा कोई, हसिज्जा छिन्ननासियं । ।
-
-
-
आत्मनैवात्मनो मोहोदये
जन्तुः जीवः, स्वयम् छेद्यवृक्षारोहणसङ्काशमौढ्योद्रेके सञ्जाते सति, तमेव -
परकीयमौढ्यम्, द्वेष्टि -
विलून श्रोत्रः,
स्वकीयमोहजातीयमेव, मोहम् धिक्कुरुते, यथा कश्चित् छिन्नकर्णः
१. वैराग्यशतके ।। ५५ ।। २. स्यान्नापिस्यादिति वैकल्पिका ।
-
२३
-
।।२४-३५।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - छिन्ननासिकम् - निकर्त्तितनासं पुरुषं हसेत् - अहो ते गता नासेत्युपहासपात्रीकुर्यात्। स्वस्मिन्नपि तुल्यतयोपहासपात्रतायास्ताम्प्रत्यन्धतयास्य कोऽप्यपूर्वो मोह इति भावः । एतदेवोपमान्तरेण स्फुटयति
२४
मोहोदई सयं जंतू, मंदमोहं तु खिसई ।
हेमभूसणधारि व्वा, जहा लक्खाविभूसणं । । २४-३६ ।। जन्तुः स्वयं मोहोदये मन्दमोहम् - स्वापेक्षयाऽपकृष्टमौढ्यं पुरुषम्, खिंसति निन्दति । यथा कश्चिद्धेमभूषणधारी सुवर्णाभरणधरः लाक्षाविभूषणम् जतुमयालङ्कारधारिणं खिसेत्, 'अहो ते परिग्रहदोष' इत्यादि, न चात्मनोऽधिकतरः स इति निभालयतीति व्यक्तैवास्य मोहाधीनता । एतदेवाचष्टेमोही मोहीण मज्झम्मि, कीलए मोहमोहिओ ।
गहीणं व गही मज्झे, जहत्थं गहमोहिओ ।। २४-३७।। मोही - मौढ्यकलुषितान्तःकरणः, मोहिनाम् - आत्मसदृशानाम्, मध्ये मोहमोहितः सन् क्रीडति विचेष्टते । ग्रहः - भूताद्यावेशः, सोऽस्त्यस्येति ग्रही, स यथा ग्रहिणां मध्ये यथार्थम् - भूताविष्ट इति स्वान्वर्थमनतिक्रम्य, ग्रहमोहितः सन् क्रीडति। पुंसां समानशीलानां सद्यो भवति सौहृदम् - इति वचनात् स्वसदृशेष्वेवास्य विचेष्टितविलासः, नानीदृशेष्विति भावः । मोहोदये चावश्यं तद्बन्धः, जे वेयइ ते बंधइ इति वचनात् । उपलक्षणमेतत्
-
१. यावन्तश्चकारास्तावन्तः समुच्चय इतिवदत्रेवयथा इत्यादिष्वप्युदाहरणोपमाद्युपन्यासेऽवगन्तव्यम् । २. त्रिपष्टिशलाकापुरुषचरित्रे ।। दशमपर्वणि ।।