________________
70 ऋषिभाषितानि -
तेन शेषकर्मप्रकृतिनामपि यथासम्भवं बन्धो द्रष्टव्यः, इत्थं च - बंधता निज्जरंता य, कम्मं नण्णंति देहिणो ।
-
वारिग्गाहघडीउ व्व, घडिज्जंतनिबंधणा । । २४-३८ ।। देहिनः - शरीरिणः, कर्म बध्नन्तो निर्जरयन्तश्च नण्णंति - कूपवदाचरन्ति । यथा वारिग्राहः - पातालस्रोतोलक्षणशिरासकाशाज्जलग्रहणम्, घटी अरघट्टकयन्त्रव्यवस्थितः क्षुद्रघटः, एतदुभयस्मात् सकाशात् कूपे जलागमस्तन्निर्गमश्च भवति, तथा देहिनोऽपि घट्यमानम् निष्पद्यमानम्, निबन्धनम् - कर्मबन्धनिर्जरानिमित्तं येषां ते घट्यमाननिबन्धनाः सन्ति । उपमान्तरेण व्यक्तीविधत्ते
-
-
-
बज्झए मुच्चए चेव, जीवो चित्तेण कम्मुणा ।
बद्धो वा रज्जुपासेहिं, ईरियन्तो पओगओ ।। २४-३९ ।। जीवश्चित्रेण - ज्ञानावरणाद्यनेकप्रकारेण, कर्मणा बध्यते मुच्यत एव नास्य कर्मबन्धनिर्जरान्तरं प्राप्यत इति भावः, यद्वा न केवलं बध्यतेऽपि तु मुच्यतेऽपि नन मुच्यते मुच्यत एवेत्यवधारणयोजनम् । यथा रज्जूपाशैर्बद्धः नियन्त्रितः, प्रयोगत: पाशशैथिल्यानुगुणात् स्वमोक्षोपायानुष्ठानात्, एर्यमान: गतिशीलः, उक्तप्रयोगप्रवृत्त इत्यर्थः । स यथा सदुपायादुपेयं प्राप्नोत्येवं प्रकृतेऽपि योज्यम्, तस्मात् -
कम्मस्स संत चित्तं, सम्मं नच्चा जिइंदिए ।
"
-
२५
-
कम्मसंताणमोक्खाय, समाहिमभिसंधए ।। २४ - ४० ।। १. च- नाऽण्णंति । ट- नणंति । शेषेषु नण्णंति। मुद्रितेषु नऽण्णं ति । ग नऽण्णंति । २. गण्ण इति कूपबाची देश्यशब्दः ।
Ashopnisad_2.p65
2nd Proof
आर्षोपनिषद् -
जितेन्द्रियः प्रत्याहृतकरणग्रामः, मनोज्ञेतरविषययो रागादिरहितो वा, कर्मण: ज्ञानावरणीयादेः, चित्राम् असङ्ख्यभेदप्रभेदशबलाम्, सन्ततिम् परम्पराम्, सम्यक् सद्गुरूपासनेन, ज्ञात्वा - भावनाज्ञानविषयीकृत्य, कर्मसन्तानः - अनन्तरोक्ततत्सन्ततिः, तस्मान्मोक्षः - एकान्तिकात्यन्तिकमुक्तिः, तस्मै तदर्थम्, समाधिम् - ज्ञानक्रिययोः सम्यग् योगम्, अभिसन्धयेत् प्रवचनप्रतिपादितविधिनाऽऽत्मनि परिणमयेत् । एतादृशसमाधिरपि स्याद्वादज्ञप्त्यैव, अन्यतरैकान्तेनोपेयप्राप्त्य
सम्भवात्, यदाह - गाणं किरियारहियं, किरियामेत्तं च दो वि एगंता। असमत्था दाएउं, जम्ममरणदुक्ख मा भाई - इति । अतः प्रथमतः स्याद्वाद एवावगन्तव्य इत्याह
दव्वओ खेत्तओ चेव, कालओ भावओ तहा ।
निच्चानिच्चं तु विण्णाय, संसारे सव्वदेहिणं । । २४-४१ ।। प्राग्वत् । उपलक्षणमेतत्सत्त्वासत्त्वाद्यनेकान्तस्य यावज्ज्ञानक्रियासमुच्चयस्य । ततस्तदनुभावेन
२६
-
-
-
-
-
-
निच्चलं कयमारोग्गं, ठाणं तेलोक्कसक्कयं । सव्वण्णुमग्गाणुगया, जीवा पावंति उत्तमं ।। २४-४२ ।। सर्वज्ञमार्गानुगताः केवलिप्रज्ञप्तागमनीतिप्रतिपत्तारः, जीवाः - भव्यात्मानः, निश्चलम्, ततः स्वाभाविकप्रायोगिकचलनाभावात्, कृतारोग्यम्, भवव्याधिसङ्क्षपणेन विहित
१. सन्मतितके ।। ३-६८ ।। २. ऋषिभाषिते । । ९-३५ ।।