Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 18
________________ नर-ऋषिभाषितानि - बझंते (बज्झते) बुज्झए चेव, हेउजुत्तं सुभासुभं। कंदसंदाणसंबद्धं, वल्लीणं व फलाफलं।।२४-२३।। कर्म बध्यते - क्षीरनीरवज्जीवनात्मीक्रियते, बुध्यते आगमानुमानादिना ज्ञायते, चैव - अवधारणे, कीदृशं कर्मेत्याह- हेतुयुक्तम्, मिथ्यात्वादिस्वकारणसहितम्, नाकारणं भवेत्कार्यमिति न्यायात्। तमेव विशेषयति - शुभाशुभम् - प्रशस्ताप्रशस्तम्। अत्रार्थ उदाहरणमाह- वल्लीनामिव - वल्लरीणामिव, कन्दसन्दानसम्बद्धम्- कन्देन सह सन्दानद्वारेण सम्बद्धम्, मूलेन सम्यग् दीयमानेन रसादिदानेनोपचिततया कार्यकारणभावलक्षणसम्बन्धेन सम्बद्धमिति - तात्पर्यम्, फलम् - प्रशस्तव्युष्टिः, अफलम् - दुष्टव्युष्टिः, कुत्सितं फलमिति यावत्। स्वस्वकन्दाद्यनुरूपमेव वल्लीनां शोभनमितरं वा फलं जायत इति। तस्मात् कर्महेतुविच्छेदे यत्नो विधेयः। कृतेऽपि तद्विच्छेदे प्राक्कृतकक्षपणं कर्तव्यतयाऽवशिष्यत इत्याहछिण्णादाणं सयं कम्मं, भुज्जए तं न वज्जए। छिन्नमूलं व वल्लीणं, पुव्बुप्पण्णं फलाफलं।।२४-२४।। छिन्नादानम् - मिथ्यात्वादिवर्जनेन निरुद्धाश्रवविवरम्, कर्म स्वयं भुज्यत - तपसा क्षपयेत्, तन्न वर्जयेत् - नैव तदुपेक्षा विदध्यात्, यथा वल्लीनां छिन्नमूलमपि पूर्वोत्पन्नम् - प्राग्जनितम्, फलाफलम्, तस्य भोगादि कर्तव्यतयाऽवशिष्यत २० आर्षोपनिषद्इति। न चातो भेतव्यम्, छिन्नमूलत्वादेवेत्याह - छिन्नमूला जहा वल्ली, सुक्कमूलो जहा दुमो। नट्ठमोहं तहा कम्म, सिण्णं वा हयणायक।।२४-२५।। यथा छिन्नमूला वल्ली, यथा वा शुष्कमूलो द्रुमः, तथैव नष्टमोहं कर्म, सर्वेषामेषां प्रकृताप्रकृतानां छिन्नादानतया विनाश एव, उदाहरणान्तरमाह - हतनायकं सैन्यमिव - व्यापादितसेनानीः सेनेव, अत्रैव निदर्शनान्तराण्याह अपरोही जहा बीयं, धूमहीणो जहाऽनलो। छिन्नमूलं तहा कम्म, नट्ठसण्णो व देसओ।।२४-२६।। यथा, न विद्यते प्ररोहः - अङ्कुरो यस्य तत्- अप्ररोहि, पृथिव्यादिसहकारिसमवधानविकलत्वेन स्वरूपयोग्यताविरहाद्वा, बीजम्। यथा वा धूमहीनः - धूमनिबन्धनेन्धनशून्यः, अनलः - ज्वलनः, तथा छिन्नमूलम् - निहतमोहनीयाख्यमूलम्, कर्म। उपमान्तरमाह- नष्टसञः - मद्यादिप्रतिहतप्रशस्तप्रेक्षः, देशक इव मार्गाद्युपदेष्टेव। स यथा सर्वेषामवज्ञास्पदत्वेन देशकत्वविशिष्टपर्यायेणावश्यं विनश्यति एवं प्रस्तुतेऽपि द्रष्टव्यम्। उपेक्षितमूलस्य जीवस्य तु कर्मपरवशतैवेत्याह - जुज्जए कम्मुणा जेणं, वेसं धारेइ तारिसं। वित्त-कतिसमत्थो वा, रंगमझे जहा नडो।।२४-२७।। येन कर्मणा विपक्वेन गतिजात्यादिनामकर्मादिना युज्यते - अभिभावितो भवति, तादृशम् - तत्तत्कर्मानुरूपम्, विशन्ति Ashopnisad_2.p65 ___आत्मानोऽत्रेति - वेशम् - नारकादिशरीरम्, तद्धारयति। सानोति _ण - कानिपारी तनारयति। १. क-ज-ठ-तु-ण- बझते। द-ख-थ-ध-न-प- वझते। ग-ट- बुज्झत। घ-त- बुज्झए। च- बुझंते । झ- बज्झते । द(२)- बुझंत । 2nd Proof

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132