Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नर-ऋषिभाषितानि- सर्पफणोपान्तं व्यवस्थिता, मनोरमाऽपि सा विषसङ्क्रमेण स्पर्शादिना प्राणापहारिणी सञ्जायते।
तथा शरीरिणः-जीवस्य सुखदुःखे। न च दुवयणे बहुवयणमित्यनुशासनभङ्ग इति वाच्यम्, संस्कृतकल्पार्षप्राकृतत्वात्, अब्बवी - इति यथा। दृष्टान्तसमन्वयस्त्वेवम्। यथाऽराणां सन्ततं शीघ्रं च विपरिवर्त्तः, तथा सुखदुःखानामपि, सातासातवेदनीयोदयस्यान्तर्गौहूर्तिकत्वात्, सुखसाधनानां सहसा संहृतेश्च, यथाऽऽह- दर्शयन् किमपि सुखवैभवं, संहरन् तदथ सहसैव रे !। विप्रलम्भयति शिशुमिव जनं, कालबटुकोऽयमत्रैव रे - इति। अन्यत्रापि - नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण - इति ।
यथा सर्पफणोपान्तं लता मनोज्ञत्वेऽपि दुष्टतया हेया, एवं सुखमपि दुःखोपान्तस्थितत्वात्, तत्संवलितत्वाद्वा, कथञ्चित्तद्रूपाद्वा हेयम्, आह च - किं विभुत्वेन किं भोगैः, किं सौन्दर्येण किं श्रिया। किं जीवितेन जीवानां, दुःखं चेत् प्रगुणं पुरः - इति , तथा परिणामाच्च तापाच्च, संस्काराच्च बुधैर्मतम्। गुणवृत्तिविरोधाच्च, दुःखं पुण्यभवं सुखम् - इति। इत्थं सत्यपि
संसारे सव्वजीवाणं, गेही संपरियत्तते। उदुचक्का तरूणं वा, वसणुस्सवकारणं।।२४-६।। सर्वजीवानां संसारे गृद्धिः - आसक्त्यतिशयः, सम्प
- आर्षोपनिषद् रिवर्तते - सुतरां पुनः पुनर्भवति, कामावाप्तदुःखानामपि कामानिवर्तनात्, उक्तं च - संसारवंचणा न वि गणंति संसारसूअरा जीवा - इति। तुच्छसुखावाप्तावपि हृष्यन्ति, अल्पवर्षायामपि क्षुद्रनदीवदुद्रेकभावात्। ___ एवं दुःखान्तं सुखमिति स्थितेऽपि सुखलवमवाप्य जीवा हृष्यन्ति, शोचन्ते चेतरप्राप्त्या, न तु विदन्ति - कालादिसामग्रीसम्पादितमुभयमपि नियतागमविगममित्यत्र हर्षादि निरर्थकम्। अत्रार्थे दृष्टान्तमाह - ऋतुचक्रात् - शिशिरादिऋतुसमूहात्, तरूणामिव - वृक्षाणामिव, व्यसनम् - परिशटितपत्रप्रकरावस्थालक्षणा विपत्, उत्सवः - शाड्वलतापुष्पफलाद्यलङ्कृततालक्षणा सम्पत्, तयोः कारणम् - विधापनम्।
न चैतौ तरूणामिच्छाविधायिनौ तद्धर्षादिसापेक्षौ वा, ऋतुलक्षणकालहेतुकत्वात्तयोः, उपलक्षणादत्र नियत्यादेरपि हेतुता बोध्या। उपनयो योजित एव। ज्ञातेऽप्येतत्तत्त्वे दुस्त्यजा संसारविषया गृद्धिः, वैराग्यैकप्रतिक्रियात्वात्तस्या इति तदुत्पत्त्युपायमाह
वण्हिं रविं ससंकं च, सागरं सरियं तहा। इंदज्झयं अणीयं च, संझं मेहं व चिंतए।।२४-७।।
वह्निम्- अग्निम्, जाज्वल्यमानतया नमस्कृत्यम्, तमेव विध्याततयाऽवज्ञापात्रं च, यद्वा सर्वभक्षित्वेऽप्यतृप्तम्, वैराग्याधिगमायानित्यताकलुषितं चिन्तयेदित्यग्रे योगः। तथा रविम् - सूर्यम्, प्रतिदिनमुदयास्तभाजम्। शशाङ्कम् - चन्द्रम्, अनिशमपि १. उपदेशमालायाम् ।।१७० ।।
१. शान्तसुधारसे ।।३-७।। २. मेघदूते । ३. योगसारे ।।२७।। ४. अध्यात्मसारे ।।१८-६४ ।।
Ashopnisad_2.p65
2nd Proof

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132