Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः कमपि ज्ञान नानाकारम् , तथा जडमपि तदशादेव बोधरूपं प्रकाशत इति विपरीलायत्तेरर्थ एव सिद्धिमास्कन्देद न ज्ञानम् । अथाव्यतिरिक्ता, हन्त ज्ञानमेव तन्न वासना नदव्यतिरिकत्वात् तत्स्वरूपवदित्यास्तां तावत् । पराभास्यपि स्वप्रका. साभावाभिदधीरन् , तदप्यसंबद्धम्। स्वप्रकाशाभावे परप्रकाशायोगात् । न हि प्रदीपः स्वरूपमनुट्योतयन् घटाधुद्दयोतने व्याप्रियते। स्वयं चाप्रतीतमपि यद्ययं ग्राहयति ज्ञानम्, देवदत्तस्योत्पन्न (ज्ञान) यज्ञदत्तं ग्राहयेत्, विशेषाभावात् । अन्य। परप्रकाशनमात्रेऽपि दूरासनादिभेदःप्रथमानानामर्थानां किमपेक्षश्चकास्ति, शरीरापेक्ष इति चेत्, न, तस्यापि प्रकाश्यताविशेषात् , तस्मादन्तर्मुखाकारस्य बहिरर्थग्रहणे सति अयं घटामाटीकते नान्यथा । अथार्थापत्यादिना प्रमाणान्तरेण तदन्तर्निविष्टं गृह्यते, ततस्सदेपेक्षया योक्ष्यते दरासन्नादिभेद इति चेत्, न, तत्रापि विकल्पयुगलकानतिवृत्तेः । तथा हि-तरप्रमाणान्तरं स्वप्रकाशमन्यप्रकाशं वा। स्वप्रकाशं चेत् , प्रथमस्य किं क्षणम् । भन्यप्रकाशं चेत्, तत्रापीयमेव वार्ता इत्यनवस्था, तस्मात् स्वरूपमवभासयदेव ज्ञानमर्थग्रहणाय व्याप्रियते इति स्थितम् ॥ परिकल्पना तयोः प्रसंगान् । जडमपीति । अचिद्रूपमपि ज्ञानम् । नहीति । यदुक्तम्
दीपवघ्नोपपद्येत बाह्यवस्तुप्रकाशनम् ।
अनात्मवेदने शाने जगदान्ध्यं प्रसध्यते ॥ १॥ विशेषाभावादिति । देवदत्तोत्पन्नज्ञानस्य देवदत्तयज्ञदत्ताभ्यामसंवेद्यमानत्वेनाविशेषात् । प्रथमानानामिति । प्रकाशमानानाम् । अन्तर्मुखेत्यादि । अन्तर्मुखोऽन्तःप्रकाशक आकारो यस्य ज्ञानस्य तस्यैव बाह्यार्थपरिच्छेदै सति अयं दूरासन्नादिभेदः संगच्छते । अर्थापत्त्यादिनेति । यदि ज्ञानं मयि उत्पन्नं न स्यात् तर्हि अर्थप्रकटता मे न स्यात् तस्मादर्थप्राकटयान्यथानुपपत्त्या ज्ञानं शरीरान्तर्निविष्टमिति व्यवस्थाप्यते । यदुक्तम्--
नान्यथहार्थसद्भावो दृष्टः सन्नुपपद्यते।
ज्ञानं चन्नेत्यतः पश्चात्प्रमाणमिति कल्यते ॥ १॥ इति । • आदिशब्दान्नैयायिकमताभिप्रायेण प्रत्यक्षं गृह्यते । तथा हि - तेषां मते घटादिविषय प्रत्यक्षं घटमेव परिच्छिनत्ति, यदा च घटप्रत्यक्षविषयं मानसाभिधानं प्रत्यक्षान्तरमुत्पयते तदा तेन घटादिविषयं प्रत्यक्षं मम उदपद्यतेति निश्चीयेत । तथा येषां मतेऽनुमानास्पृथग
पत्तिर्नेष्यत, तन्मतेऽनुमानेन ज्ञानं ममोदपादीति व्यवस्थाप्यते इति, तदप्यनुमानमत्रादिशब्दाद् गृह्यते । तचानुमानं द्वेधा, दृष्टं सामान्यतोदृष्टं च । तत्र प्रत्यक्षपरिच्छेदार्थािनुमापकं दृष्टम्, यथा धूमो धूमध्वजस्य । स्वरूपविप्रकृष्टार्थ तु सामान्यतोदृष्टं, यथा गन्धादिलानं घ्राणादेः । तथा हि- गन्धाधुपलब्धिः करणकार्या, क्रियात्वात् , या क्रिया सा करणकार्या यथा छिदिक्रिया, क्रिया चेयम्, तस्मात्करणकार्या; तथात्रलमप्यनुमानं स्वरूपविप्रकृष्टार्थमिति सामान्यतोदृष्टम् । तथा हि- अर्थप्राकटयं विशिष्टकारणजन्यम्, विशिष्टकार्य
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110