Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः माठौकते । तथा हि- तदलीकत्वसिद्धावद्वयसंवेदनसिद्धिः, तस्सिद्धौ च तदलीकत्व. मिति न्यायात् । अन्यच्च अद्वयमप्येकक्षणवर्ति संवेदनं यथा पूर्वोत्तरक्षणाभ्यां संव. न्धमनुभवति, तथा निरंशा अपि यदि परमाणवो दिगंशैः परमाण्वन्तरैर्वा संश्लेष. मागच्छेयुः किमयुक्तं स्यात् । न चावयव्यवयवयोरेकान्तः पतिरेकाव्यतिरेकपक्षे यहू. षणं तदस्मत्पक्षबाधाकरम् , परस्पराविनि ठितरूपयोर्विवक्षया संदर्शनीयभेदयोस्तयोरभ्युपगमात् , बहिरन्तश्च तथैव प्रकाशमानत या नमोनिहोतुमशक्यत्वात् । एतेन रागारागकम्पाकम्पादिविरोधोद्भावनमपि प्रतिव्यूढम् , प्रमाणप्रसिद्धेऽर्थे विरोधाभावात् , प्रमाणबाधितस्यैव विरुद्वत्वात् , कुयुक्तिविकरूपानां च प्रत्यक्षापह्नवे निर्म. लतया बाधकस्वायोगात् , तदुद्दलितत्वेनोत्थानाभावात् , भिन्नप्रवृत्तिनिमित्तस्वाच सर्वधर्माणां तद्विपर्ययसंपाद्या विरोध दुरापास्त एव । किं च, स्वयमेव संवेदनं परमार्थसंव्यवहारापेक्षया प्रत्यक्षाप्रत्यक्षसविकल्पकाविकल्पकभ्रान्ताभ्रान्तादरूपमभ्युपयतो बहिरर्थे विरुद्धधर्माध्यासप्रतिषेधबुद्धिः केवलं जाड्यं सूचति । तन्न प्रमाणं कथं. चिद् भ्रान्तं समस्ति, स्वरूपप्रच्यवसङ्गादिति स्थितम् । ननु च तहर्शितार्थालीकतया ज्ञानस्य भ्रान्सता, न स्वरूपेण, न च तदुदयसमये कस्यचिदिदमलीकार्थम् , इदं स्वनलीकार्थमिति विवेकेनावधारणं समस्ति; भ्रान्तताभ्रान्तताभिमतयोस्तदेकरूपतया प्रकाशनात् । यदा च विशददर्शनपथचारिणोऽपि शशधरयुगलादयोऽलीकतामाविशन्तो दृश्यन्ते, तदा सकलसत्यार्थताभिमतप्रतिभासेष्वप्यलीकार्थताशकानिवृत्तेरनाश्वास एव । न च तदर्थप्राप्त्यादिकमारेकानिराकरणकारणं कल्पनीयम् , मेकं झानं वर्तते इति विचारः प्रवर्तते एव । तदुइलितस्वेनेति । प्रत्यशापह्नवेन कुयुक्तित्रिकल्पानां निर्दलितत्वादुत्थानाभावः, प्रत्यक्षाभावे हि कचित् कस्याप्यदर्शने कथं कुयुक्तिविकल्पाना संभवः ? भिमप्रवृत्तिनिमित्तस्वादिति । पर्यायरूपतया हि एकत्वपरिणामरूपस्यावयविनः तन्तुभ्यो भेदः, द्रव्यरूपतयाऽभेदः, एवमुत्पादादिधर्माणामपि विरोधाभावो बोद्धव्यः, उत्तरपर्यायस्य युदयः पूर्वपर्यायस्य व्ययः द्रव्यस्य स्खनुयायिनो प्रौव्यमिति । परमार्थेस्यादि। परमार्थसंव्यवहारापेक्षयेति एतद् यथासमवं योज्यं न यथाक्रमम्, तेन परमार्थापेक्षया संवेदनं प्रत्यक्षम् स्वसंवेदनरूपत्वात्; संव्यवहारापेक्षया त्वप्रत्यक्षम्, अर्थाभावेऽप्यपरिच्छेदात्मकत्वेन लोकैरध्यवसायात् , तथा परमार्थापेक्षया विकल्परहितम्, सर्वविकल्पाना स्वात्मनि निर्विकल्पत्वात् ; संव्यवहारापेक्षया तु विकल्पकलुषितम् , असतो बहिरर्थस्य तेन विक. ल्पनात् , तथा परमार्थापेक्षया अधान्तम् , अानमात्रस्य वास्तवत्वात् ; संव्यवहारापेक्षया च आन्तम् , अविद्यमानबाद्यवस्तुनि बहीरूपतयार्थस्य ग्राहकत्वात्। आदिग्रहणात् परमार्थापेक्षया प्रमाणम् संव्यवहारापेक्षया स्वप्रमाणमित्याद्यपि द्रष्टव्यम् । बहिरथें बाद्यवस्तुनि मदामेदा. दिविरुद्धधर्माध्यासने कृत्वा हेतुना वा प्रतिषेधबुद्धिः केवलं मन्दतां प्रकटयति । तदर्थप्राप्स्यादिकमिति । तस्य प्रतिभासमानस्य जलादेरर्यस्य प्राप्तिः, आदिशब्दात् पानाव. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110