Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः भयानां अनिवृत्तेरनिवर्तनात् , चशब्दस्य व्यवहितप्रयोगत्वात् संशयाच, निवृत्तिसंदेहाचेत्यर्थः । तदनेन षड् दृष्टान्ताभासाः सूचिताः । तद्यथा-१, साध्याव्यतिरेकी; २, साधनाव्यतिरेकी; ३, साध्यसाधनाव्यतिरेकी; तथा ४, संदिग्धसाध्यन्यतिरेका, ५, संदिग्धसाधनव्यतिरेकः, ६, संदिग्धसाध्यसाधनव्यतिरेकश्चेति । तत्र साध्यन्यतिरकी यथा- भ्रान्तमनुमानं प्रमाणत्वाद्- इति। अत्र वैधर्म्यदृष्टान्तः- यत् पुनीन्तं न भवति न तत् प्रमाणम् , तद्यथा- स्वमज्ञानमिति, स्वमज्ञानाद् भ्रान्ततानिवृत्तेः साध्यान्यतिरेकित्वमिति । साधनाग्यतिरेकी यथा- निर्विकल्पकं प्रत्यक्षं प्रमाणत्वादिति। अत्र वैधर्म्यदृष्टान्त:- यत् पुनः सविकल्पकं न तत् प्रमाणम् , तद्यथानुमानम् , अनुमानात् प्रमाणतानिवृत्तेः साधनाम्यतिरेकिरवम् । उभयान्य. रिकी यथा- नित्यानित्यः शब्दः सत्वादिति । अत्र वैधर्म्यदृष्टान्त:- यः पुनर्न नित्यानित्यः स न सन् , तद्यथा घटः, घटादुभयस्याप्यव्यावृत्तेरुभयाव्यतिरेकिस्वमिति । तथा संदिग्धसाध्यव्यतिरेको यथा- असर्वज्ञा अनाप्ता वा कपिलादयः भार्यसत्यचतुष्टयाप्रतिपादकत्वादिति । अत्र वैधर्म्यदृष्टान्तः- यः पुनः सर्वज्ञ आप्तो वा भसावार्यसत्यचतुष्टयं प्रत्यपीपदत् , तद्यथा शौद्धोदनिरिति । अयं च साध्याव्यतिरंकी वा, आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणबाधितत्वेन तन्नापकल्यासर्वज्ञतानाततोपपत्तेः, केवलं तन्निराकारकप्रमाणसामर्थ्यपर्यालोचनविकलानां संदिग्धसाध्यव्यतिरेकतया प्रतिभाति इति तथोपन्यस्तः । तथा हि- यद्यप्यार्यसत्यचतुष्टयं शौद्धोदनिः प्रतिपादितवान् , तथापि सर्वज्ञताप्तते तस्य न सिध्यतः, ताभ्यां सहार्यसत्यचतुष्टयप्रतिपादनस्यान्यथानुएपश्यसिद्धेः, असर्वज्ञानाप्लेनापि परप्रतारणाभिप्रायप्रवृत्तनिपुणबुद्धिशठपुरुषेण तथाविधप्रतिपादनस्य कर्तुं शक्यत्वात् । तस्मात् शौद्रोदनेः सकाशादसर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः संदिग्धेति संदि. ग्धसाध्यन्यतिरकिरवमिति । संदिग्धसाधनव्यतिरेको यथा- अनादेयवाक्यः कश्चिद् विवक्षितः पुरुषः रागादिमत्वादिति । अत्र वैधय॑दृष्टान्तः - यः पुनरादेयवाक्यो
आर्यसत्यचतुष्टयमिति । आराद दूरं यान्ति पापादित्यार्याः, निरुक्तलक्षणं, तेषां सौ साधूना पदानां वा यथासंभवं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च हितानि सत्यानि तत्त्वानीत्यर्थः, तेषां चतुष्टयम् । दुःखेत्यादि । दुःखं फलभूताः पञ्चोपादा. नस्कन्धाः-रूपं वेदना संज्ञा संस्कारो विज्ञानमेव चेति; ते एव तृष्णासहाया हेतुभूताः समुदयः, समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तितः। निरोधहेतु.रात्म्यामकारचित्तविशेषो मार्गः, 'मार्ग अन्वेषणे', मार्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरादीमन्तत्वेन स्वरान्तत्वादल्प्रत्ययः । निष्क्लेशावस्था चित्तस्य निरोधः, निरुध्यते रागद्वेषोपहतचित्तलक्षणः संसारोऽनेनेति करणे पनि मुक्तिरित्यर्थः । एतच दुःखादिरूपं, विस्तरार्थिना प्रमाणविनिश्चयटीकादेनिष्टानीयम् । प्रमाणबाधितत्वेनेति । दुःखादीनां हि मूलमात्मा,
For Private And Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110