Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यावावतारः दरं यदविद्यमानानां दोषाणामुगावनं तदूषणस्थानोपन्यस्तत्वात् तस्कार्याकरणात् सम्यक्साधने दोषोद्भावनस्य प्रलापायमानत्वात् दृषणवदाभासते इति दूषणाभा. समिति, तदेव नाम संज्ञा यस्य तत्तथा, समर्थसाधनोपन्यस्तत्वात् साधिते साध्ये सतामप्यपशब्दालंकारादिदोषाणां यदुद्भावनं तदपि दूषणाभासनामकमिति । तुशब्देन विशेषणार्थेन दर्शयति-वस्तुसिद्धयर्थ वादप्रवृत्तेः, तस्य सिद्धत्वात्, अपशब्दादीनामप्रस्तुततया तद्वारेण दोषप्रकाशनस्यासंबद्धप्रलापरूपत्वात् , इतरथा तावन्मात्रेणैव परापाकरणसिद्धेः समर्थसाधनान्वेषणप्रयत्नो विशीर्येत, प्रयोजनाभावा. दिति ॥ २६ ॥ तदेवं व्यावहारिकप्रमाणस्य प्रत्यक्षपरोक्षस्वार्थपरार्थादिभेदभिन्नस्य लक्षणं प्रतिपाद्याधुना यैः पारमार्थिकं समस्तावरणविच्छेदलभ्यमशेषार्थगोचरं केवलज्ञानं नाभ्युपगम्यते, तन्मतोद्दलनार्थ तल्लक्षणमभिधिरसुराह सकलावरणमुक्तात्म केवलं यत्प्रकाशते । प्रत्यक्ष सकलात्मसततप्रतिभासनम् ॥ २७ ॥ सकलं समस्तमावृणोत्याब्रियते वा अनेनेत्यावरणम्, तत्स्वरूपप्रच्छादनं कौत्यर्थः, सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत्तथा, अत एव केवलमसहायं आवरणक्षयोपशमविचित्रतयैव बोधस्य नानाकारतया प्रवृत्तेः, सामस्त्येन पुनरावरणनिर्दलने विबन्धककारणवैकल्यादेकाकारतयैव तस्य विवर्तनात् , अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते मिरुपाधिकं द्योतते इत्यर्थः, तत्परमार्थतः प्रत्यक्षम् । तदिदं सकलावरणमुक्तारम इति हेतुद्वारेण तथा केवलं यत् प्रकाशते इति स्वरूपतो निरूपयाधुना कार्यद्वारेण निरुपयमाह-सकलास्मिनां समस्तवस्तुरूपाणां सततप्रतिभासनम् - अनवरतप्रकाशनं सकलार्थास्मसततप्रतिभासनमिति, प्रतिभास्यतेऽनेनेति प्रतिभासनं, भात्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानमिति यावत् । अस्य च पारमार्थिकत्वम् , निरुपचरितशब्दार्थोपपत्तेः। तथा हि- अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षम् , यत्रारमनः साक्षाद् व्यापारः, व्यावहारिकं पुनरिन्द्रियग्यवाहितारमव्यापारसंपायस्वात् परमार्थतः परोक्षमेव, धूमादमिज्ञानवत् , तिरोधानाविशेषात् । ननु च प्रसिद्धं लक्ष्यमनूद्याप्रसिद्धं लक्षणं विधीयते, सर्वत्रायं न्यायः, अप्रसिद्ध पुनलक्ष्ये लक्षणमभिधीयमानमम्बरारविन्दिनीकुसुमलक्षणवनिगोचरतां यायात् , तदिदं तूपपदामावेन णिन्प्रत्ययस्यासंभवादर्थकथनमात्रमेतत् । तावन्मात्रेणैवेति । अपशब्दालंकारादिदोषोद्भावनमात्रेणैव । प्रयोजनाभावादिति । समर्थसाधनस्य हि परनिराकरणं प्रयोजनम्, तच्छेदपशब्दादिदोषोद्भावनेनापि चक्रे तदा कृतं वादिदूषणार्य प्रतिवादिनः समर्थसाधनोपन्यासप्रयासेनिति ॥ २६ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110