Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायावतार मस रागादिमान् , तपथा सुगत इति । यद्यपि तदर्शनामुरक्ताम्तःकरणानां सुगतस्यादेयवचनता सिद्धि सौधमध्यारूता, तथापि रागादिमरवाभावस्तस्प्रतिपादकप्रमा. णवैधुर्यात् संदेहगोचरचारितामनुभवति, अतः सुगतान रागादिमत्ताब्यावृतिसंशयात् संदिग्धसाधनव्यतिरेकिरवमिति । संदिग्धसाध्यसाधनव्यतिरेको यथा- मवीत. रागाः कापलादयः करुणास्पदेष्वप्यकरुणापरीतचित्ततयादत्तनिजकमांसशकलस्वादिति। भन्न वैधय॑दृष्टान्त:- ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकला:, सधथा बोधिसत्वा इति । अत्र साध्यसाधनधर्मयोबोधिसत्वेभ्यो व्यावृत्तिः संदिग्धा, तत्प्रतिपादितप्रमाणकल्याद् न ज्ञायते किं ते रागादिमन्तः उत वीतरागाः, तथा. नुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा, अत: संदिग्धसाध्यसाधनव्यति. रेकित्वमिति । परैरपरेऽपि दृष्टान्ताभासास्त्रयो विमृश्यभाषितया दार्शनाः । तद्यथाअश्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेकश्वति, तेऽस्माभिरयुक्तरवास दर्शयितव्याः। तथा हि- अव्यतिरेकस्तैर्दर्शितः, यथा- अवीतरागः कश्चिद् विवक्षितः पुरुषः, वक्तृत्वादिति, अत्र वैधर्म्यदृष्टान्तः- यः पुनर्वीतरागो न स वका, यथोपलखण्ड इति । यद्यपि किलोपलखण्डादुभयं व्यावृत्तम् , तथापि व्याप्स्या व्यतिरेकासिद्धेरव्यतिरेकित्वमिति । अयुक्तश्चायं वक्तुम् , अव्यतिरेकिताया हेतुदोषस्वात् । यदि हि दृष्टान्तवलेनैव व्यतिरेकः प्रतिपाद्यत, तदा तथाविधसामर्थ्य वि. कलस्य तदाभासता युज्येत, न चैतदस्ति, प्राक्प्रवृत्तसंबन्धग्रहणप्रवणप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोपादानात् ; न ह्येकत्र यो यदभावे न दृष्टः स तदभावे न भवतीति प्रतिबन्धग्राहिप्रमाणव्यतिरेकेण सिध्यति, अतिप्रसङ्गात् ; तस्मादसिद्धप्रतिबन्धस्य हेतोरेवायं दोषो न दृष्टान्तस्येति । तथाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकावपि वक्तुमयुक्तौ, तयोर्वक्तृदोषत्वात् । तथा हि- अप्रदर्शितव्यतिरकस्तरुक्तः, यथा- नित्यः शब्दः कृतकत्वादाकाशवत्- इति । अत्र विद्यमानोऽपि व्यतिरेको वादिना वचनेन नोद्भावित इति दुष्टता । विपरीतव्यतिरेकः पुनरभिहितः, यथाअनित्यः शब्दः कृतकत्वादिति । अत्र वैधHदृष्टान्तः- यदकृतकं तन्नित्यं भवति, यथा आकाशमिति, अत्र विपर्यस्तव्यतिरेकप्रदर्शनाद्विपरीत पतिरेकित्वम्, वैधये. प्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयः, न चैवमत्र, साधनाभावस्य साध्याभावव्याप्ततयाभिधानादिति। व्यतिरेकाप्रदर्शनं विपतिव्यतिरेकप्रदर्शनं च न तदभावे कथं तेषां संभवः । तथा हि- दुःखं नाम देहधर्मविलक्षणोऽन्तःसंवेद्यो धर्मः, धर्माश्च धर्मिणमन्तरेण न भवन्ति, रूपादय इव घटम् , नास्ति च बौद्धादीनां दुःखादिधर्मानुगुणो जीव:, मुख्यदुःखाभावे च दु:खहेतुत्वात् दुःखं संसारिणः स्कन्धा अपि न स्यः तदभावे च न हेतुः । एवं मार्गनिरोधयोरपि प्रमाणबाधितत्वमपि भावनीयमिति । उपलखण्ड इति। खण्डध्वनिः पुनपुंसकः ॥ २५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110