Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
टीका-टिप्पनसहितः
>
६०
"
वस्तुनो दोषः, किं तर्हि वचनकुशलता विकलस्याभिधायकस्य । किं च येषां भवतामदो दर्शनम् - यदुत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्थानुमानावसरेऽपि हेतुप्रतिपादनमेव कव्यिम्, “विदुषां वाच्यो हेतुरेव हि केवलः ”- इति वचनात्, तेषां कृतकत्वाद् इतीयता हेतूपन्यासेनैव सिसाधयिषितसाध्यसिद्धेः समस्तदृष्टान्ताभावर्णनमपि पूर्वापरण्याहतवचनरचनाचातुर्यमाविर्भावयति । आसातां तावदेतौ दृष्टान्तस्य साधनावयवत्वेनानभ्युपगमात् । अथेत्थमाचक्षीथाः - अभ्वयव्यतिरेकापरिज्ञाने प्रतिपाद्यस्य न दृष्टान्तमन्तरेणैतौ दर्शयितुं शक्यौ, अतोऽन्वयव्यतिरेकदर्शनार्थं दृष्टान्तोऽभिधातव्यः, ततश्च तत्कार्याकारिणां तदाभासतेति चेत्, गले गृहीतस्यायमुल्लापः तथाप्यप्रदर्शितव्यतिरेकविपरीतव्यतिरेको दृष्टान्ताभासौ न वास्तव, किं तर्हि वक्तृदोषसमुत्थौ, अतो नाभिधातुं युक्तौ तथाविधस्य विद्यमानवस्तुप्रकाशन सामर्थ्यरहितस्य निबिडजडिमावष्टब्धस्य पुंसो वादानधि. कारिश्वाद्, मातृकापाठशालायोग्यतया विदुषां वादयितुमयुक्तत्वादिति ॥ २५ ॥
तदेवं परार्थानुमानं व्याचक्षाणेन यदुक्तम्- यदुत तत्पक्षादिवचनात्मकमिति तत्पक्षहेतुदृष्टान्तानां साभासानां प्रतिपादनात् प्रायः पर्यन्तितम्, केवलं तत्परोक्षदूषणोद्धारादेव समीचीनतामाबिभर्ति इत्यमुना प्रस्तावेन दूषणं साभालमभिधातु
काम आह-
Acharya Shri Kailassagarsuri Gyanmandir
वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् ।
दूषणं निरवद्ये तु दूषणाभासनामकम् ॥ २६ ॥
वदनशीलो वादी प्रत्यायकस्तेनोक्ते उपन्यस्ते, कस्मिन् ? साधने, साध्यते प्रतिपाद्याप्रतीतावारोप्यतेऽनुमेयं येन तत्साधनम् । तञ्चानेकरूपं प्राक् प्रत्यपादि । तद्यथा कचिद्धेतुरेवैकः, क्वचित्पक्ष हेतू, कश्चित् पक्ष हेतुदृष्टान्ताः कचित्ते एव सोपनयाः, क्वचित् सनिगमनाः क्वचिदेकैकतच्छुद्धिवृद्धयेति, प्रतिपाद्यस्य क्वचित् कथंच्चित् प्रत्याययितुं शक्यत्वात्, तत्प्रत्यायनोपायस्य च साधनत्वादिति, तनेह सम्यक्साधनस्य दूषयितुमशक्यत्वात् साधनाभास एव तत्सामर्थ्योपपत्तेः । साधनाभासमेव दूषण पनिपातात् प्रागवस्थायामनिशीतं सामान्येन साधनध्वनिनोक्तम्, तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षा सिद्धादिहेतु साभ्यादिविकलदृष्टान्ताद्युपन्यास-लक्षणानामुद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दुष्यते - स्वाभिप्रेतसाध्यप्रत्यायन वैकल्यलक्षणं विकृतिं नीयते साधनमनेनेति दूषणमिति ज्ञेयम् । अधुना तदाभासमाह-निर्गतं सम्यक्प्रयुक्तत्वादवयं पापं पक्षादिदोषलक्षणं दौध्यमस्मादिति निरवद्यम् तस्मिन् साधने वादिनोक्ते इति वर्तते, तथापि मत्सरितया प्रमृधो
वदनशील वादीति, वदतीति ग्रहादेर्णिन् इति णिन् - अवश्यं वदतीति आवश्यकार्थे वा आवश्यकाधमर्णयोर्णिन् इति णिन् । वदनं वादः सोऽस्यास्तीति वा वादी; शीलार्थे
For Private And Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110