Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः तथोररीकृतयोगाचारमतमपि बलादनेकान्तप्रकाशर जुरावेष्टयति, एकस्यापि ज्ञानस्यानेकवेद्यवेदकाकारतया प्रथनोपगतेः । एकयोगक्षेमत्वात् तदैक्यमिति चेन्न, युगपदुदयप्रलयवतां सहवेदिनां सकलसंतानानामेकत्वप्रसङ्गात् । संवृतिदर्शितत्वादने. कत्वस्य न तेन स्वसंवेदनसाक्षात्कृतपारमार्थिकैकत्वक्षतिरिति चेन्न, ब्रह्मवादिमताप्रतिषेधप्रसक्तः । यतोऽनाद्यविद्याबलादेकमक्रम सचेतनं स्वसंवेदनसाक्षात्कृतमपि ब्रह्मानेके क्रमवत् चेतनाचेतनं परोक्षापरोक्षं लक्ष्यते, भवत्परिकल्पितग्राह्यग्राहका. कारविविक्तसंवेदनवदिति तेनापि न दुरुपपादम् । अस्तु चायमनेकान्तावभासो भ्रान्तस्तथापि संवेदनस्याद्वयता न लक्ष्यते, तल्लक्षणे सकलासुमतामधुनैव मुक्तता. वाप्तेः, लक्ष्यते च तत्कथंचित् , इतरथा सुषुप्तदशावत् सर्वव्यवहारोच्छेदप्रसङ्गात् , इत्येकस्यापि संवेदनस्य लक्षितालक्षितत्वेनानेकान्तप्रतिभासो दुःशकोऽपह्वोतुमिति ज्ञानवाद्यप्यस्य हेतोरसिद्धताविर्भावनं प्रति तूष्णीमासीत् ।।
शून्यवादिनः समस्तःभावादसिद्धोऽनेकान्तप्रकाश इति चेन्न, तस्यापि प्रमाणप्रमेयाभावेन सर्वाभावावेदनं समस्ति, अन्यथाप्रमाणकं सर्व सर्वत्र विद्यते इति परस्यापि वदतो न वदनभङ्गः स्यात् , तदभ्युपगमेऽभ्युपगमक्षतिः । तयोश्च दर्शित. वदनेकान्तप्रकाश इति नासिद्धो हेतुः । मरुमरीचिकानिचयचुम्बिनि संवेदने जलोलेखेऽपि तद्वोचरत्वाभ्युपगमाभावादनकान्तिकोऽयमिति मा शङ्किष्टाः, तस्य भ्रान्त. त्वात् , अभ्रान्तः प्रकाशो हि तदभ्युपगतिहेतुः । अथायमपि इतरेतरविनि ठितपरमाणुक्षणक्षयिबोधेन बाध्यमानत्वात् भ्रान्त इत्याचक्षीथाः, तदयुक्तम् , यतस्तदोधः किमुपलब्धिमात्रम् यद्वा निर्णयो वा । यद्याद्यः कल्पः, तदानुमानं विशीर्येत, निर्गोचरत्वात् प्राथमकल्पिकेनैव निर्विकल्पकविविक्तदर्शनेन विरोधभीरुतया सर्वथा
र्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणमिति तल्लक्षणात् , तथान्तःसंवेदनस्यापि । तथा हि- स्मर्यमाणसंवेदनमसंनिहितत्वादस्फुटं प्रतिभाति, अनुभूयमानं तु संनिहितत्वात् स्फुटम्; यद्वा परसंतानवर्ति संवेदनं संनिहितत्वादस्फुटम्, स्वसंतानवर्ति तु संनिहितत्वात् स्फुटम् , तस्मादन्तःसंवेदनस्यापि तल्लक्षणलक्षितत्वात् स्वलक्षणनमिति। योगाचारेति योजनं योगः, सानाकारयोः संबन्धः, तमाचरन्ति व्यवहरन्ति इति कर्मण्यण् इति अण् , साकारज्ञानमात्रवादिन इत्यर्थः, योगः समाधिः साकारलानमात्रैकाग्रता, तमाचरन्ति इति वा, पूर्ववत् अण् । ब्रह्मेति सानाद्वैतमिति । न तेनापि दुरुपपादमिति । एतत् कर्मतापन्नं तेनापि ब्रह्मवादिना न दुःखेनोपपाद्यते, किंतु सूपपाद-सुखेनैव घटयितुं शक्यमित्यर्थः । मुक्ततावाप्तेरिति तत्त्वज्ञानोत्पत्तिर्मुक्तिः इति मुक्तिलक्षणाभिधानात् , तत्त्वं च ज्ञानाद्वैतमेवेति तेषामभिप्रायः ॥ तस्यापीति । शून्यवादिनः परस्यापि सांख्यस्य । तदभ्युपगमे प्रमाणप्रमेययोरङ्गीकारे । तदभ्युपगतिहेतुरिति । प्रतिभासमानार्थगोचरत्वाङ्गीकारकारणमनुमानमिति क्षणिकत्वसाधकम् । प्राथमकल्पिकेनैवेति । कल्पः पक्षः, प्रथमश्चासौ
For Private And Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110