Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः बुद्धिसंक्रान्तानां सुखदुःखारमकानामर्थानां पुरुषः संनिधानमात्रेण भोजको व्यपदिश्यते, बुद्धयध्यवसितमर्थ पुरुषश्चेतयते '-- इति वचनादिति चेत् , न, कथंचित् सक्रियाकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपत्तेः, अप्रच्युतप्राचीनरूपस्य व्यपदेशामहत्वात् , तस्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्व. मापततीति न्यायात् । स्फटिकदृष्टान्तेऽपि जपाकुसुमादिसंनिधानादन्धोपलादी रक्ततानाविर्भवन्ती तस्य तथाविधं परिणाम लक्षयति, अन्यथान्धोपलवत्तत्रापि न प्रादुःष्यात् , तन्नाक्रियस्थ भोक्तृतोपपद्यते इति । 'विवृत्तिमान् इत्यमुना त्वेकान्तनित्यमपरिणामिनं नैयायिकवैशेषिकादिप्रकल्पितं प्रमातारं निरस्यति, सर्वथा भविचलित रूपस्यार्थग्रहणपरिणामानुपपत्तेः । व्यतिरिक्तज्ञानसमवायादेकान्तनित्योsपि प्रमिणोतीति चेत् , न, समवायस्य प्रागेव प्रतिक्षिप्तत्वात् , संबन्धान्तरस्य च व्यतिरेकिणा साकमनुपपत्तेः, अन्यत्र अन्यथानुपपन्नत्वात् । न च व्यतिरेकिणि ज्ञाने समस्ति, तद्ग्राहकप्रमाणाभावात , अव्यतिरेकानुभवस्य च तद्वाधकत्वात् । किं छ तस्या विकारो वैषम्यम्, स चासौ निर्मलत्वेन प्रतिबिम्बोत्पत्तियोग्यवान् दर्पणाकारा चासो बुद्धिश्च तत्र प्रतिबिम्बिताना सुखदुःखादिरूपाणामर्थानामात्मा प्रकृतिसंनिधानात भोक्ताभिधीयते । अयमभिप्रायः- अर्थास्तावत् प्रकृत्यात्मके बुद्धिदर्पणे पूर्व प्रतिबिम्ब्यन्त, प्रकृस्यभिन्नत्वभावार्थप्रतिबिम्बवती बुद्धिः, आत्मनीयेष प्रतिबिम्बलक्षणों भोगः । वादमहार्णवोsप्यस्मिन् दर्शने स्थितः प्राह - बुद्धिदर्पणसंक्रान्तसमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यभ्यारोहति, तदेवं भोक्तृत्वमस्य, न तु विकारापत्तिः - इति । तथा चाहुरामरिप्रभृतयः - विविक्तेटक्परिणती बुद्धी भांगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ अस्यार्थः-विविक्ता स्पष्टा ईदृग् विषयाकारपरिणतेन्द्रियाकारा परिणतिर्यस्या बुद्धेः सा तथा, तस्यां सत्यामस्यात्मनो भोगः कथ्यते। किंस्वरूपः ? प्रतिबिम्बोदयः, न वास्तवः। प्रतिबिम्बमात्रे दृष्टान्तमा - यथा चन्द्रमसो निर्मले जले प्रतिबिम्बनम्, एवं विशिष्टाकारपरिणताया बुद्धरात्मनीति । विभक्तेल्यादिपाठान्तरेण व्याख्यानान्तरं तु हरिभद्रमरिकृतं नेह प्रकाश्यते, बहुव्याख्याने व्यामोहप्रसङ्गात् । अन्ये तु विन्ध्यवासिप्रभृतयः पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सांनिध्यादुपाधिः स्फटिकं यथा ॥ इति भोगमाचक्षते। व्याख्या-- यथोपाधिर्जपापुष्पपद्मरागादिरतद्रूपमपि स्फटिक स्वाकारा रक्तादिच्छायां करोति, एवमयमात्मा स्वरूपादप्रच्यवमानः चतन्यं पुरुषस्य स्वं वचनमिति वचनादचेतनमपि मनो बुद्धिलक्षणमन्तःकरणं स्वनिर्भासं चेतनामव करोति सांनिध्यात्, न पुनर्वस्तुतो मनसश्चतन्यम्, विकारित्वात् । तथा हि- मनोऽचेतनम्, विकारित्वात् , घटवदिति । अन्धेति । अन्धोपलः प्रतिबिम्बोत्पादनानहः खखटः पाषाणः । भ्याया-१३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110