Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
नुमितानाधनन्तकालभाविनिजानन्तपर्यायविवर्तः प्रमाणप्रतिष्टितः पारमार्थिको जीवः सकलनयप्रमाणव्यापकः प्रमातेति स्थितम् ॥ ३१ ॥
सांप्रतं पर्यन्तश्लोकेन प्रकरणार्थमुपसंहरन्नाह - _प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका ।
सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥ ३२ ॥ प्रमाणानि प्रत्यक्षादीनि, आदिशब्दात् नयपरिग्रहस्तेषां व्यवस्था प्रतिनियत. लक्षणादिरूपा मर्यादा सेयमनन्तरोक्तस्थित्या प्रकीर्तितेति संसर्गः। किंभूता ? भाह-- आदिः प्रभवः, निधनं पर्यन्तः, न विद्यते आदिनिधने यस्यासौ तथाविध आत्मा स्वरूपमस्याः सा अनादिनिधनात्मिका सर्वसंव्यवहर्तृणां लौकिकतीर्थिकादि. भेदभिन्नसमस्तव्यवहारवतां प्रसिद्धापि रूढापि, तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसङ्गात् , तदुच्छेदे च विचारानुस्थानेन कस्यचित्तरवस्य न प्रतिष्ठितिः, प्रकीर्तिता संशब्दिता, अग्युत्पन्नविप्रतिपन्नव्यामोहापोहायेति गम्यते, प्रमाणप्रसिद्धेऽप्यर्थे प्रबलावरणकुदर्शनवासनादितः केषांचिदनध्यवसायविपर्यासरूपव्यामोहसद्भावात् , तदपनोदार्थ च सति सामथ्यों करुणावतां प्रवृत्तेरिति ॥ ३२ ॥
स्याद्वाद्वकेसरिसुभीषणनादर्भातरुत्रस्तलोलनयनान् प्रपलायमानान् । हेतुर्नयाश्रितकुतीर्थमृगाननन्यत्राणान् विहाय जिनमेति तमाश्रयध्वम् ॥ १ ॥
भवति । सकलनयप्रमाणब्यापक इति । ज्ञातुराशयात्मानो (नीयमाना) नयाः, प्रमाणानि प्रागभिहितस्वरूपाणि, ततः सकलशब्देन विशेषणसमासे तेषां व्यापक: वृक्षत्वमिव शिंश. पात्वस्य । अयमभिप्राय:-- आत्मा हि ज्ञानरूपो नयप्रमाणे तु ज्ञानविशेषरूपे, ततो यथा वक्षत्वविशेषः शिंशपात्वं वृक्षत्वसामान्येन व्याप्यते, एवं ज्ञानविशेषात्मके नयप्रमाणे सामान्यझानरूपेणात्मना व्याप्यते इति ॥ ३१ ॥
लौकिकतीर्थिकादीति । लौकिका हलधरादयः, तीथिका नैयायिकादयः, आदिशब्दात् शेषपाखण्डिपरिग्रहः । वासनादित इति । आदिशब्दात् विप्रतारकवचनादिग्रहः ॥ ३२ ॥
साम्प्रतं शास्त्रपरिसमाप्तौ शास्त्रकृत् सिद्धः परममङ्गलपदे भगवति जिने स्वयमत्यन्ता. नुरागादतिवत्सलतया परेषामपि तदा तदाधानाय तावदुपदेशमाह स्याद्वादेत्यादि । स्याच्छरो अस्तेर्यात्प्रत्ययान्तस्य प्रतिरूपकोऽव्ययः, स च यद्यपि विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिः, तथाऽप्यनेकान्तवृत्तिरिह गृह्यते, एकान्तप्रतिक्षेपस्यैवात्र प्रस्तुतत्वात् , तेनोपलक्षितो वादो स्याद्वादः, स एव केसरिसिंहः, कि कित ज्ञाने-इत्यस्य. औणादिके दन्त्यादौ सरप्रत्यये केसरः सटा, तथा च शृङ्गारप्रकाशेऽपि--के मस्तके सरतीति केसर इत्यखण्डयत् । स चायं केसरशब्द पुनपुंसकः, मत्वर्थीयेन्प्रत्ययान्तश्च सिंहे वर्तते, तस्यातिभैरवः परप्रवादिमृगपूगभयंकरत्वादू नादो वादकालभावी वाग्विलासस्तस्मात् भीतिस्तस्याः । अयमत्र समुदायार्थ:-- शरणविकलपुरुष इव हेतुः सत्त्वादिः कमपि शरणाय शरण्यं मार्य
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110