Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः स्तैलादिकरणे व्याप्रियेरन् । किं च तत्समुदायमात्रसाध्यं वा चैतन्यं स्यात् , विशिष्टतस्परिणामसाध्यं वा? न तावदाद्या क्लप्तिः, इलाजलानलानिलनभस्तलमीलनेऽपि चेतनानुपलब्धेः । द्वितीयविक्लप्तौ पुनः किं वैशिष्ट्यमिति वाच्यम् । कायाकारपरिणाम इति चेत् , स तर्हि सर्वदा कस्मान्न भवति ? कुतश्विद्वेत्वन्तरापेक्षणादिति चेत् , तत्तर्हि हेत्वन्तरं भवान्तरायातजीवचैतन्यमित्यनुमिमीमहे, तस्यव कायाकारपरिणामसाध्यचैतन्यानुरूपोपादानकारणत्वात् , तद्विरहे कायाकारपरिणामसद्भावेऽपि मृतावस्थायां तदभावात् गमनादिचेष्टानपलब्धः, तन्न कायाकारपरिणामजन्यचैतन्यम् , अपि तु स एव तज्जन्य इति युक्तं पश्यामः । न प्रत्यक्षादन्यत् प्रसाणमस्ति, न च तेन परलोकगमनागमनादिकं चतन्यस्योपलक्ष्यते, तेन दृष्टान्येव भूतानि तत्कारणतया कल्पनीयानीति चेत् , न, केवलप्रत्यक्षप्रतिक्षेपेण प्रमाणान्त. राणां प्रागेव प्रसाधितत्वात् , तथा च भूयास्यनुमानानि परलोकानुयायिजीवसाधकानि प्रवर्तेरन् । तद्यथा- तदहर्जातबालकस्य आधस्तनाभिलाष: पूर्वाभिलाषपूर्वकः, अभिलाषत्वात् , द्वितीयदिवसादिस्तनाभिलाषवत् । तदिदमनुमानमाद्यस्तनाभिलाषस्याभिलापान्तरपूर्वकत्वमनुमापयदांपत्त्या परलोकयायिजीवमाक्षिपति, तजन्मन्यभिलाषान्तराभावात् , एवमन्यदप्युदाहार्यमित्यास्तां तावत् । तदयं स्वपरप्रकाशः कर्ता भोक्ता नित्यानित्यात्मको भृतविलक्षणः साक्षात्कृतकतिचिनिजपर्यायावृत्तं सत् सजातीयपरिणामत्वेऽवतिष्ठत इति विरुद्धव्यापकोपलब्धिः । सजातीयपरिणामत्वं वा साध्यम् । चैतन्यं सजातीयकारणपरिणामम् , उत्पत्तिमत्त्वात् , यदेवं तदेवम् , यथा मृत्परिणामो घटः; तथा चेदम् सजातीयपरिणामम् । तन्न निवेतनानि भूतानि चेतनाकरणे प्रवृत्तिभानि भवितुमर्हन्तीति स्थितम् । अर्थापश्येति। यथा करतलामिसंयोगात् स्फोट: प्रत्यक्षेणोपलक्ष्यमाणो वढेर्दाहिकां शक्तिमुपकल्पयतीति, एवमेतस्मादनुमानादनुमीयमानो जन्माघस्तनाभिलाषात् प्राचीनोऽभिलाषचतनावन्तमन्तरेणोपपद्यते, स्तम्भकुम्भाम्भोरुहादेरपि प्रसङ्गात । यश्चेतनावान् स परलोकगायी जीव इति । एवमन्यदप्युदाहार्यमिति । सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात , यन् पुनर्निरात्मकं न ता प्राणादिमन् यथा कुम्भः, प्राणादिमच जीवच्छरीरम् , तस्मात् सात्मकमिति । साक्षादित्यादि । स्वसंवेदनप्रत्यक्षीकृतैः सत्त्वप्रमेयत्वद्रव्यत्वचिद्रूपत्वादिभिः कतिपयः स्वपर्यायर नुमितोऽनाद्यनन्तकालभाविनामात्मीयानन्तपर्यायाणां व्यावृत्तः परिणामा यस्य जीवस्य स तथा : तथा हि- वर्तमानात्मपर्यायास्तदात्मपर्यायान्तरपूर्वकाः, तान् विना तदनुपपत्तेः, यद्विना यन्नोपपद्यते तन नत्पूर्वकम् यथा वीजमन्तरेणानुत्पद्यमानोऽङ्करो वीजपूर्वः, नोत्पद्यन्ते च पूर्वपर्यायानन्तरेण वतमानपर्यायाः, अतस्तेऽपि तत्पूर्वकाः । निहंतुकत्वासको विपर्यय नायकं प्रमाणम् । एवं वर्तमानाः पर्यायाः पर्यायान्तरजनकाः, वस्तुत्वात् , यद् वस्तु तम् पर्यायान्तरस्य जनकम, यथा घटः कपालानाम् , वस्तूनि च विवादाध्यासिताः, तस्मा पयायान्तरजनकाः । अवाप्यवस्तुत्वासनी विपर्यये वाधकः, पर्यायाणां च पर्यायिणोऽभिन्नत्वात् वस्तु वस्त्वन्तरस्य जन्यं जनकं चेत्युक्त For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110