Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org THTHERE? ९९ , कारणमनुमापयतीति तदवस्यैव जीवसिद्धिः । अथाभिन्नम्, तथा सति समस्तभूतानामैक्यं प्रसजति, एकचैतन्याव्यतिरिक्तत्वात् तत्स्वरूपवत् । निजनिजचैतम्याम्यतिरेकीणि भूतानि तेनायमदोष इति चेन्न तत्संपाद्यपुरुषशरीरेऽपि तज्जन्यपञ्चचैतन्यप्रसङ्गात् । पञ्चापि संभूय बृहत्पुरुषचैतम्यं बहवस्तिला इव तैलघढं जनयन्तीति चेत्, तत्तर्हि पुरुषचैतन्यं किं तेषामेव संयोगो यद्वा तदुत्पाद्यमन्यदेव ? वद्याद्यः करूपः, तदयुक्तम्, चैतन्यानां परस्परं मिश्रणाभावेन संयोगविरोधात्, इतरथा बहुपुरुषचैतन्यानि संभूय बृहत्तमचैतन्यान्तरमारभेरन् । अथ द्वितीयः पक्षः, तत्रापि तेषां किमन्वयोऽस्ति नास्ति वा ? यद्यस्ति, तदयुक्तम्, प्राग्वत्तजन्यचैतन्यपञ्चरूपतापत्तेः । अथ नास्ति, तदप्यचारु, निरन्वयोरपादस्य प्रमाणबाधितस्वात्, तन सचेतनानि भूतानि चेतनाकरणे व्यापारभाञ्जि भवितुमर्हति । नापि निश्चेतनानि तेषामत्यन्तविलक्षणतया चैतन्योत्पादविरोधात् इतरथा सिकतादय › Acharya Shri Kailassagarsuri Gyanmandir शरीरे यश्चैतन्यं तत् स्वोत्पत्तये शरीरजनकेषु भूतेषु चैतन्य कल्पयति । तथा तत्रापीति । तेष्वपि भूतेषु तैर्भूतैः सह वर्तते यच्चैतन्यं तदपि स्वजनकेषु भूतेषु तेभ्यो भूतेभ्यो भिन्नमात्महेतुमपरं चैतन्यं गमयतीति । तदवस्थेति । अनवच्छिन्न चैतन्य संतानस्य जीवरूपत्वादित्यभिप्रायः । निरन्वयोत्पादस्य प्रमाणबाधित्वादिति । अनुवृत्तव्यावृत्तवस्तुग्रहण परिणामः प्रत्यक्षं, यथा च तेन मृत्पिण्डादुत्पद्यमानं घटादि मृद्द्रव्यात्मनानुगतम्, घटघटीशरावोदचनाद्यपि पर्यायापेक्षया व्यावृत्तं वीक्ष्यते, ते च भेदाविशेषेऽपि घटपटादिष्विव स्थासको - शादिषु विलक्षणैव प्रतिपत्तिः, तथा चैतन्यमपि पूर्वचैतन्यादुत्पद्यमानं चिद्रूपतयानुवृत्तं सितपीतादिबोधरूपतया तु व्यावृत्तं स्वसंवेदन प्रत्यक्षेणैव व्यवस्थाप्यते इति प्रत्यक्षसिद्धान्वयः, तेन च निरन्वयोत्पादैकान्तो बाधितः । तथा हि--पूर्वो ज्ञानक्षण उत्पद्यमानक्षणात् कथंचि - दभेदी, उपादानत्वे सति कारणत्वात् यः पुनः कथंचिदभेदी न भवति नासावुपादानत्वे सति कारणम्, यथा आलोकः, न चायमुपादानत्वे सति न कारणम्, तस्मात् कथंचिदभैदीति । उपादानत्वं हि कार्ये कथंचित् स्वकर्मारोपकत्वेन व्याप्तम्, तच्च सहकारिणामपि प्रसङ्गादेकान्तभेदे नोपपद्यते । ततो भेदतन्निवर्तमानं स्वव्याप्यमुपादानत्वमपि निवर्तयतीति व्याप्तिसिद्धिः । ततः स्थितमेतत् प्रमाणबाधितत्वादिति । अत्यन्तविलक्षणतया चैतन्योत्पादविरोधादिति । अयमभिप्रायः -- भूतैश्चैतन्यं जन्यते इति भूतान्येव चैतन्यरूपतया परिणमन्ते इति परिणाम एवोत्पादार्थो भवतामभिप्रेतः, न चैकान्तवैलक्षण्ये परिणामो घटामिर्ति, एतच्च प्रत्यक्षसिद्धमेव, तथापि दृढत्वाद् विप्रतिपत्तेरनुमानमप्यभिधीयते -चैतन्यं विजातीयपरिणामो न भवति, उत्पत्तिमत्त्वात् यदुत्पत्तिमत् न तद्विजातीयपरिणामः, यथा मृदात्मना सजातीयस्य मृत्पिण्डस्य परिणामो घटः, उत्पत्तिमच्चैतन्यम्, तस्मात् न विजातीयपरिणामः । उत्पत्तिमत्त्वं सजातीयपरिणामत्वेन व्याप्तम्, तद्विरुद्धं च विजातीयपरिणामत्वम् । तत उत्पत्तिमत्त्वं स्वव्यापकाविरुद्धाद् विजातीयपरिणामत्वाद् विनि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110